SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३९८ www. kobatirth.org काव्यमाला | Acharya Shri Kailassagarsuri Gyanmandir 'अयमतिजरठाः प्रकामगुर्वीर लघुविलम्बिपयोधरोपरुद्धाः । सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्विभर्ति || ' अत्र हि समासोक्त्युदाहरणे वृद्धवेश्यावृत्तान्तः प्रतीयते । तत्राभङ्गश्लेष इति सर्वेषामभिमतम् । एवं चाप्रकृतार्थो न व्यङ्गयः ।" इत्याह । तत्र विचारयामः – यत्तावदुच्यते उपमादेरलंकारस्यैव व्यङ्ग्यत्वं प्राची - नानामभिप्रेतं न त्वप्रकृतार्थस्येति । एवं सति 'अनेकार्थस्य शब्दस्य वाचकत्वे नियत्रिते । संयोगाद्यैरवाच्यार्थधीकडचाष्टतिरञ्जनम् ||' इत्यादिस्तेषां ग्रन्थः कथमायुष्मता समर्थितः । उपमादेर्व्यङ्ग्यत्वस्य वाचकतानियन्त्रणानपेक्षत्वात् । नह्यनेकार्थस्यापि शब्दस्योपमादिवाचकत्वं प्रसक्तं येन तन्नियन्त्रणाय संयोगाद्यनुसरणमर्थवत्स्यात् । द्वितीयार्थवाचकतायामनियन्त्रितायामप्युपमादेर्व्यङ्ग्यत्वस्य निष्प्रत्यूहत्वात् । तस्मात्तग्रन्थानाकलननिबन्धनं तदभिप्रायवर्णनमिति स्फुटमेव । यदप्युच्यते अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यस्येत्यादि तत्र कथमप्रकृतार्थस्य शक्त्या प्रतिपादनम् । तद्विषये शक्तेर्नियन्त्रणस्य तैरेवोक्तत्वात् । अथ नियन्त्रणं नाम प्रथमं बोधजननमात्रं न तु चरममपि । एवं च प्रकृतशक्त्या प्रकृतार्थबोधे जाते सत्यकृतार्थया द्वितीयशक्त्या प्रकृतेतरार्थबोधे न किंचि - द्वाधकमिति चेत् न । प्रथमं प्रकृतार्थबोधस्याजननमेव कस्य हेतोः । अन्यत्रापि उदाहरणान्तरेऽपि । अयमतीति । माघे रैवतकवर्णनम् । अयं रैवतकगिरिः कठिना: अत्यन्तमहतीः महाविलम्बमानमेघव्याप्ताः निरन्तरं प्राणिनामगम्यस्वरूपाः परिणतास्तिर्यग्दन्तप्रहारिणो दिक्करिणो दिग्गजा यासु तास्तटीविभर्तीत्यर्थः । 'तिर्यग्दन्तप्रहारी यो गजः परिणतस्तु सः' इति हलायुधः । वृद्धवेश्यापक्षे तु अयं राजा अतिप्रवयसो जीर्णा महाविलम्बमानस्तनसंबद्धां सततं कदापि प्राणिनां संगमायोग्यस्वरूपाः । गमने प्राणिनां मरणमेवेति भावः । परिणते दिग्वर्तुलाकारं दशनक्षतं करिका नखक्षतं च यासां तास्तटीस्तत्त्वेनाध्यवसिता वृद्धवेश्या बिभर्तीत्यर्थः । ' दिग्दष्टं वर्तुलाकारं करिकानखरेखिका' इति यादवः । ननु तत्र श्लेष एव नात आह-तत्रेति । अयमतोत्यत्रेत्यर्थः । उपसंहरति एवं चेति । तेषां प्राचीनानाम् । दोषान्तरमाह - द्वितीयार्थेति । तैरेव प्राचीनैरेव । अकृतार्थया अचरितार्थया । सा पूर्व वियमाना । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy