________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः । सीतां परित्यक्तवतो भगवतः श्रीरामभद्रस्येयमुक्तिः । अत्र सीतापरित्यागरूपोऽपराधस्तजन्यं दुःखं वा विभावः । पतितसाम्यरूपस्वापकर्षभाषणमनुभावः । यदाहुः
'चिन्तौत्सुक्यान्मनस्तापाद्दौर्गत्याच्च विभवतः। .. अनुभावात्तु शिरसोऽप्यारत्तेात्रगौरवात् ॥ देहोपस्करणत्यागादैन्यं भावं विभावयेत् ॥' इति ।
'दौर्गत्यादेरनौजस्यं दैन्यं मलिनतादिकत् ।' इति च । अत्र हतकेन मया विवासिता न तु विधिनेत्येतस्यार्थस्य पतितोपमयैव परिपोषः, न तु शूद्राद्युपमया । यतः शूद्रस्य जात्यैव श्रुतिदौलभ्यं विधिना कृतम् । पतितस्य तु ब्राह्मणादेविधिना श्रुतिसुलभत्वे स्वभावेन कृतेऽपि तेनैव तथाविधं पापमाचरता स्वतः श्रुतिर्दूरीकतेति तस्य पतितेन साम्यम् । तस्याश्च श्रुत्येत्युपमालंकारो दैन्यमेवालंकुरुते । तथा मयेति सेति चोपादानलक्षणामूलध्वनिभ्यां कृतघ्नत्वकृतज्ञात्वनिर्दयत्वदयावतीत्वाद्यनेकधर्मप्रकाशनद्वारा तदेव परिपोप्यते । ऐति स्मृत्या च लेशतः प्रतीयमानया।
काभावादाह-तजन्यमिति । चिन्तौत्सुक्यादिरूपविभावत्रयतः, शिरसोऽप्या(भ्या). वृत्त्यादिरूपानुभावत्रयतो दैन्यं भावं जानीयादित्यर्थः । वचनान्तरमाह-दौर्गत्यादेरिति । अनौजस्यमोजोगुणाभावः । सर्व वाक्यं सावधारणमिति न्यायलभ्यमर्थमाहन तु विधिनेति । जात्यैव स्वभावेनैव । तेनैव पतितेनैव। तथाविधं पातित्यजनकम् । तस्य रामस्य । तस्याः सीतायाः । साम्यमित्यस्यानुषङ्गः । मेवालमिति । अलंकुरुत एवेत्यर्थः । न तु स्वयं प्रधानं येन गुणीभूतव्यङ्गयत्वापत्तिरिति भावः । उपादानलक्षणामूलध्वनिभ्यामिति । स्वार्थमुपादायेतरार्थलक्षणमुपादानलक्षणा. । लक्ष्यतावच्छेदकं चा. तिक्लेशे तदत्यक्तत्वं मत्पदस्य । वनवाससखीत्वमित्यादि च तत्पदस्य । व्यङ्गयार्थमाहकृतघ्नत्वेत्यादि । यथाक्रममन्वयः । तदेवेति । दैन्यं परिपोष्यत एवेत्यर्थः । न तु प्राधान्यं येन दैन्यध्वनित्वोच्छेद इति भावः । सेतीति । यतस्तेन तद्धर्मप्रकाशोऽतो लेशतोऽङ्गतः प्रतीयमानया सेति स्मृत्या च दैन्यं परिपोष्यत एवेत्यस्यानुषङ्गः । न तु प्राधान्यं येन स्मृतिध्वनित्वं स्यात्, न दैन्यध्वनित्वमिति गावः । यत्र चिन्तायाम् ।
११
For Private And Personal Use Only