________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. काव्यमाला ।
इष्टापाप्त्यनिष्टप्राप्त्यादिजनिता ध्यानापरपर्याया वैवर्ण्यभूले. खनाधोमुखत्वादिहेतुश्चित्तवृत्तिविशेषश्चिन्ता। यदाहुः
'विभावा यत्र दारिद्यमैश्वर्यभ्रशनं तथा । इष्टार्थापहृतिः शश्वच्छ्वासोच्छ्रासावधो मुखम् ॥ संतापः स्मरणं चैव काश्य देहानुपस्कृतिः । अधृतिश्चानुभावाः स्युः सा चिन्ता परिकीर्तिता ।। वितकोऽस्याः क्षणे पूर्व पाश्चात्येवोपजायते ॥ इति ।
'ध्यानं चिन्ता हितानाप्तेः संतापादिकरी मता।' इति च । उदाहरणम्“अधरद्युतिरस्तपल्लवा मुखशोभा शशिकान्तिलचिनी ।
अकृतप्रतिमा तनुः कृता विधिना कस्य कृते मृगीदृशः ॥' अत्र तदप्राप्तिर्विभावः । अनुतापादय आक्षेप्या अनुभावाः । न चात्रौत्सुक्यध्वनिरिति वाच्यम् । कस्य कृत इत्यनिर्धारितधालम्बनायाश्चिन्ताया एव प्रतीयमानतया सतोऽप्यौत्सुक्यस्यैतद्वाक्येन प्राधान्येनावबोधनात् ।.
मद्याद्युपयोगजन्मा उल्लासाख्यः शयनहसितादिहेतुश्चित्तवृत्तिविशेषो मदः।
यदाहुः—'संमोहानन्दसंदोहो मदो मद्योपयोगजः ।' इति । तत्रोत्तम पुरुषे स्वापोऽनुभावः । मध्यमे हसितगाने । नीचे तु रोदनपरुषो
अथ विभावकथनानन्तरम् । 'अस्याः' इति पाठे चिन्ताया इत्यर्थः । एवमग्रेऽपि । तथा चेतः प्राक्तनाविर्भावः । अस्या इत्यस्यानुभावा इत्यनेनान्वयात् । देहानुपस्कृतिदेहाप्रसाधनम् । वितर्को वक्ष्यमाणस्वरूपः । अस्तपल्लवेति पश्चम्यर्थे बहुव्रीहिः । पल्लवपदेन तच्छोभा । अकृतप्रतिमेति । उपमानमित्यर्थः । कृता मृगीदृश इत्यनयोः सर्वत्र संबन्धः । तदप्राप्तिस्तादृशनायिकाप्राप्तिः । प्रतीयेत्यस्य द्राक्प्राधान्येनेत्यादिः । उपयोग: प्राशनम् । संमोहति । अनयोः समूहो यत्रेत्यर्थः । तत्र शयनादीनां मध्ये । उत्तमे पुरुषे इति । 'उत्तमसत्त्वः प्रहसति गायति तद्वच्च मध्यमप्रकृतिः । परुषवचनाभिधायी
For Private And Personal Use Only