________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
किमनिष्टं मम भविष्यतीत्याकारश्चित्तवृत्तिविशेषः शङ्का । उदाहरणम्'विधिवञ्चितया मया न यातं सखि संकेतनिकेतनं प्रियस्य ।
अधुना बत किं विधातुकामो मयि कामो नृपतिः पुनर्न जाने ।' अत्र राजापराधो विभावः । मुखवैवादय आक्षेप्या अनुभावाः । इयं तु भयाद्युत्पादनेन कम्पादिकारिणी, न तु चिन्ता । ' आधिव्याधिजन्यक्लहानिप्रभवो वैवर्ण्यशिथिलाङ्गत्वहरभ्रमणादिहेतुर्दुःखविशेषो ग्लानिः।
यथा
. 'शयिता शैवलशयने सुषमाशेषा नवेन्दुलेखेव ।
प्रियमागतमपि सविधे सत्कुरुते मधुरवीक्षणैरेव ।।' अत्र प्रियाविरहो विभावः । मधुरवीक्षणरेवेत्येवकारेण बोध्यमाना प्रत्युद्गमचरणनिपतनाश्लेषादीनां नित्तिरनुभावः । न चात्र श्रमः शङ्कचः । कारणाभावात् । केचित्तु व्याध्यादिप्रभवबलनाशं ग्लानिमाहुः । तेषां मते चित्तवृत्त्यात्मकेषु भावेषु नाशरूपाया ग्लानेः कथं समावेश इति ध्येयम् । यद्याप 'बलस्यापचयो ग्लानिराधिव्याधिसमुद्भवः ।' इति लक्षणवाक्यादपचयशब्देन नाश एव प्रतीयते, तथापि प्रागुक्तानुपपत्त्या बलनाशजन्यं दुःखमेव बलापचयशब्देन विवक्षितम् ।
दुःखदारिद्यापराधादिजनितः सापकर्पभाषणादिहेतुश्चित्तवृत्तिविशेषो दैन्यम् । उदाहरणम्'हतकेन मया वनान्तरे वनजाक्षी सहसा विवासिता ।
अधुना मम कुत्र सा सती पतितस्येव परा सरस्वती ।' भावरूपवस्तुनः । उपयोगिता पोषकता । विधिर्दैवम् । इयं तु शङ्का । तुरेवार्थे । सुषमा शोभाविशेषः । श्रमस्तदाख्यो भावः । कारणेति । तच्च स्फुटीभविष्यति। लक्षणेति। मुन्युक्तेत्यादिः । अनुपपत्तिरसमावेशरूपा । विवक्षितमिति । एवं तु केचिदन्योऽपि सुयोज इति भावः । हतकेन हतसदृशेन । भाग्यरहितेनेति यावत् । वनजाक्षी जलजाक्षी । सहसा कारणं विनैव । परा उत्कृष्टा सरस्वती । श्रुतिरित्यर्थः । विनिगम
For Private And Personal Use Only