________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
प्रसक्तेः । न च तत्र प्रतिभायाः प्रतिबन्धकमदृष्टान्तरं कल्प्यमिति वाच्यम् । तादृशानेकस्थलगतादृष्टद्वयकल्पनापेक्षया क्लृप्तव्युत्पत्त्यभ्यासयोरेव प्रतिभाहेतुत्वकल्पने लाघवात् । अतः प्रागुक्तसरणिरेव ज्यायसी । ताहशादृष्टस्य तादृशव्युत्पत्त्यभ्यासयोश्च प्रतिभागतं वैलक्षण्यं कार्यतावच्छेदकम्, अतो न व्यभिचारः । प्रतिभात्वं च कवितायाः कारणतावच्छेदकं प्रतिभागतवैलक्षण्यमेव वा विलक्षणकाव्यं प्रतीतिनात्रापि सः । न च सतोरपि व्युत्पत्त्यभ्यासयोर्यत्र न प्रतिभोत्पत्तिस्तत्रान्वयव्यभिचार इति वाच्यम् । तत्र तयोस्तादशलक्षण्ये मानाभावेन कारणतावच्छेदकानवच्छिन्नत्वात् । पापविशेषस्य तत्र प्रतिबन्धकत्वकल्पनाद्वा न दोषः । प्रतिबन्धकाभावस्य च कारणता समुदितशक्त्यादित्रयहेतुतावादिनः शक्तिमात्रहेतुतावादिनचाविशिष्टा । प्रतिवादिना मन्त्रादिभिः कृते कतिपयदिवसव्यापिनि वास्तम्भे विहितानेकप्रबन्धस्यापि कवेः काव्यानुदयस्य दर्शनात् ॥ तच्चोत्तमोत्तमोत्तममध्यमाधमभेदाच्चतुर्धा । शब्दार्थी यत्र गुणीभावितात्मानौ कमप्यर्थमभिव्यङ्गस्तदायम् ।
सा भवत्येवेति भावः । क्लप्तति। प्रतिबन्धकादृष्टादि नाशकतयेति भावः । एतेनोक्तद्वयव्यावृत्तिः । नन्वेवं प्रतिभाकार्यककार्यकारणभावे व्यभिचारोऽत आह-तादृशति । केवलेत्यर्थः । तथा च विजातीयप्रतिभा प्रति तत्कारणं विजातीयप्रतिभा प्रति ताविति न दोष इति भावः । नन्वेवमपि प्रतिभाकारणककार्यकारणभावे व्यभिचार एवात आहप्रतिभात्वं चेति । प्रागुक्तं सामान्यरूपमित्यर्थः । नन्वेवमप्येकप्रतिभातोऽपरमपि काव्यं स्यादत आह-प्रतिभागतेति । अत्रापीति । द्वितीयकार्यकारणभावेऽपि न व्यभिचार इत्यर्थः । ननु वैलक्षण्यमदृष्टासहकृतत्वरूपमेवोक्तं तच्च तत्रास्त्येवेत्यत आह-पाति । नन्वेवमिदमेव गौरवमत आह-प्रतीति । एवं च कार्यमानं प्रति प्रतिबन्धकाभावस्य कारणतायाः क्लप्तत्वेन काव्यं प्रति यथोभाभ्यां स्वीक्रियते तथात्रापीति न मेऽधिककल्पनजगौरवमिति भावः । समुदितहेतुवादिमते तत्स्वीकार आवश्यक इत्याहप्रतिवादीति । विहितेति । कृतानेककाव्यस्यापीत्यर्थः ॥
तच्चेति । काव्यं चेत्यर्थः । शब्दार्थाविति । गुणीभावितात्मानौ शब्दार्थौ यत्र कमप्यर्थमभिव्यक्त इत्यन्वयः । भूमिं निदानम् । व्यङ्ग्यपदस्योभयत्र संबन्धः । एवमग्रे
For Private And Personal Use Only