________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
१४३
कयोरर्थयोरुपस्थितिसंभवेन द्वितीयपदप्रयोगस्य नैरर्थक्यापत्तेश्च, इति चेत्, अत्राहुः--'एकपदोपात्तत्वादन्तरङ्गाकाङ्क्षावशेन प्रथमं योगार्थरूव्यर्थयोरन्वये सति समुल्लसितस्य विशिष्टार्थस्यैव पदान्तरार्थेनान्वयः । न तु तयोरेव विशकलितयोरिति यद्यपि न्यायसिद्धोऽर्थः, तथापि शक्त्यार्थस्य प्रतिपादने स्यादेवम् । लक्षणायां तु योगरूढेन योगार्थमात्रप्रतिपादनेन न किंचिद्वाधकमस्ति । नापि द्वितीयपदप्रयोगस्य नैरर्थक्यम् । तथा सति रूट्यर्थबोधनेन गतार्थेन योगरूढशब्देन प्रतिपाद्यमानस्य योगार्थस्य पङ्कजाक्षीत्यादाविव नान्तरीयकत्वशङ्कया कुर्वद्रूपताया अपहतौ प्रकृतोपयोग्यतिशयविशेषव्यञ्जनस्य पाक्षिकत्वापत्तेः । द्वितीयपदयोगे तु तेनैव सूट्यर्थप्रतिपादने सिद्धे योगरूढपदप्रतिपाद्यस्य योगार्थस्य नान्तरीयकत्वशङ्काया अयोगात्कुर्वद्रूपत्वेन व्यङ्ग्यविशेषव्यञ्जकत्वं नियमेन सिद्ध्यति । एषा पदद्वयोपादानस्थले गतिरुक्ता । यत्र तु 'पुष्पधन्वा विजयते जगत्त्वत्करुणावशात्' इत्यादावेकेनैव पदेन रूट्यर्थोपस्थितियोगार्थद्वारा निःसारत्वाद्यवगमश्च भवति, तत्र कविकृतमन्मथरूढपदान्तरानुपादानपूर्वकपुष्पधन्वपदोपादानप्रतिसंधानेन तदीययोगाथै कुर्वद्रूपताधानं बोध्यम् । तदित्थं द्वितीयपदस्योपादानेऽनुपादाने वा न क्षतिः । एवं जात्यन्तरविशिष्टवाचकपदसमभिव्याहारेऽपि । 'दिशि दिशि जलजानि सन्ति कुमुदानि' इत्यत्रापि जलजादिपदानां लक्षणया योगार्थमात्रबोधकत्वम् । योगशक्त्युल्लासितस्य तु तादृशार्थस्य रूढ्यथोपश्लिष्टत्वेन स्वातन्त्र्येण कुमुदादावन्वयायोगात् । इत्थमभिधा निरूपिता।
अनया यः शब्दो यमर्थ बोधयति स तस्य वाचकः । इयं च यस्य वेति । आवश्यकयोरिति । पदद्वयोल्लेखेनोक्तातिशयव्य जनार्थमिति भावः । एकपदोपेति । अन्तरङ्गत्वादी हेतुरयम् । तयोः योगार्थरूट्यर्थयोः । विशकलितेति । पदान्तरार्थेनान्वय इत्यस्यानुषङ्गः । एवं योगार्थमात्रबोधकत्वानुपपादनमाद्यदोषमुद्धत्य द्विती. यदोषमुद्धरति-नापीति । तथा सति द्वितीयपदानुपादाने सति । नान्तरीयकत्वे ति । मुख्यतात्पर्यो विषयत्वेत्यर्थः । शङ्काया अभावे त्विष्टार्थसिद्धिरत आह-पाक्षिकेति । अत एवाग्रे नियमेनेति वक्ष्यति । जगत् कर्म । कविकृतत्वमुपादानेऽन्वेति । प्रतिसंधानेन श्रोतुरिति शेषः । इत्यत्रापि इत्यादावपि । शक्त्या न निर्वाह इत्याह
For Private And Personal Use Only