________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
काव्यमाला।
रागादिनिष्ठतया च वर्ण्यमानः शोकः, ब्रह्मविद्यानधिकारिचाण्डालादिगतत्वेन च निर्वेदः, कदर्यकातरादिगतत्वेन पित्राद्यालम्बनत्वेन वा क्रोधोत्साहौ, ऐन्द्रजालिकाद्यालम्बनत्वेन च विस्मयः, गुर्वाद्यालम्बनतया च हासः, महावीरगतत्वेन भयम्, यज्ञीयपशुवसासृङ्मांसाद्यालम्बनतया वर्ण्यमाना जुगुप्सा च रसाभासाः । विस्तृतिभयाञ्चामी नेहोदाहृताः सुधीभिरुन्नेयाः । एवमेवानुचितविषया भावाभासाः। यथा
'सर्वेऽपि विस्मृतिपथं विषयाः प्रयाता
विद्यापि खेदकलिता विमुखीबभूव । सा केवलं हरिणशावकलोचना मे
__ नैवापयाति हृदयादधिदेवतेव ॥' गुरुकुले विद्याभ्याससमये तदीयकन्यालावण्यगृहीतमानसस्यान्यस्य वा कस्यचिदतिप्रतिषिद्धगमनां स्मरतो देशान्तरं गतस्येयमुक्तिः । अत्र च स्वात्मत्यागात्यागाभ्यां स्रक्चचन्दनादिषु विषयेषु चिरसेवितायां विद्यायां च कृतघ्नत्वम्, अस्यां च लोकोत्तरत्वमभिव्यज्यमानं व्यतिरेकवपुः स्मृतिमेव पुष्णातीति सैव प्रधानम् । एवं च त्यागाभावगतं सार्वदिकत्वं व्यञ्जयन्त्यधिदेवतोपमापि । एषा चानुचितविषयकत्वादनुभयनिष्ठत्वाच्च भावाभासः । यदि पुनरियं तत्परिणेतुरेवोक्तिस्तदा भावध्वनिरेव ॥
अथ भावशान्तिःभावस्य प्रागुक्तखरूपस्य शान्ति शः । स चोत्पत्त्यवच्छिन्न एव ग्राह्यः । तस्यैव सहृदयचमत्कारित्वात् । उदाहरणम् -- 'मुञ्चसि नाद्यापि रुषं भामिनि मुदिरालिरुदियाय ।
इति तन्व्याः पतिवचनैरपायि नयनाब्जकोणशोणरुचिः ।।' निन्द्यः । कातरो भीतः । एवमेव रसाभासवदेव । खेदकलिता खेदव्याप्ता । विनिगमनाविरहादाह--अन्यस्येति । अत्र च स्वात्मत्यागेति विषयविद्योभयकर्टकस्वत्यागेन विषयविद्ययोः कृतघ्नत्वम्, नायिकाकर्तकस्वीयात्यागेन चास्यां नायिकायां लोकोत्तरत्वमित्यर्थः । एवं स्मृतिमेव पुष्यतीत्यर्थः । स च नाशश्चोत्पत्त्यवच्छिन्न एवोत्पत्तिकाला
For Private And Personal Use Only