________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
अत्र मुनिगुरुशब्दयोरुपलक्षणपरतया राजादेरपि ग्रहणम् । अथात्र किं व्यङ्गयम्'व्यानम्राश्चलिताश्चैव स्फारिताः परमाकुलाः ।
पाण्डुपुत्रेषु पाञ्चाल्याः पतन्ति प्रथमा दृशः ॥' अत्र व्यानम्रतया धर्मात्मताप्रयोज्यं युधिष्ठिरे सभक्तित्वम्, चलिततया स्थूलाकारताप्रयोज्यं भीमसेने सत्रासत्वम्, स्फारिततया अलौकिकशौर्यश्रवणप्रयोज्यमर्जुने सहर्षत्वम्, परमाकुलतया परमसौन्दर्यप्रयोज्यं नकुलसहदेवयोरौत्सुक्यं च व्यञ्जयन्तीभिर्दग्भिः पाञ्चाल्या बहुविषयाया रतेरभि. व्यञ्जनाद्रसाभास एवेति नव्याः । प्राञ्चस्त्वपरिणेतृबहुनायकविषयत्वे रतेराभासतेत्याहुः । तत्र शृङ्गाररस इव शृङ्गाराभासोऽपि द्विविधः । संयोगविप्रलम्भभेदात् । संयोगाभासस्त्वनुपदमेवोदाहृतः । विप्रलम्भाभासो यथा'व्यत्यस्तं लपति क्षणं क्षणमथो मौनं समालम्बते
सर्वस्मिन्विदधाति किं च विषये दृष्टिं निरालम्बनाम् । श्वासं दीर्घमुरीकरोति न मनागङ्गेषु धत्ते धृति ।
वैदेहीकमनीयताकवलितो हा हन्त लङ्गेश्वरः ॥' अत्र सीतालम्बनेयं लङ्केशगता विप्रलम्भरतिरनुभयनिष्ठतया जगद्गुरुपत्नीविषयकतया चाभासतां गता, व्यत्यस्तं लपतीत्यादिभिरुक्तिभिर्व्यज्यमानैरुन्मादश्रममोहचिन्ताव्याधिभिस्तथैवाभासतां गतैः प्राधान्येन परिपोष्यमाणा ध्वनिव्यपदेशहेतुः । एवं कलहशीलकुपुत्राद्यालम्बनतया वीतमिति शेषः । प्रथमोदाहरणसंग्रहायाह-अत्रेति । अत्र वक्ष्यमाणोदाहरणे किं रसो वा तदाभासो वेत्यर्थः । स्फारिता विस्तृताः । प्रथमा इत्यनेन पूर्व दर्शनाभावः सूचितः । सभक्तित्वमित्यादि द्वितीयान्तानां व्य जयन्तीभिरित्यनेनान्वयः । भास एवेत्यस्य व्यङ्गय इति शेषः । एवेन रसव्यवच्छेदः । प्राञ्चस्त्विति । अत्रारुचिबीजं तु रत्यनौचित्यस्यापरिणीते इवात्रापि सत्त्वम् । नहि लक्षणे तथा निवेशोऽस्तीति । तत्र रसाभासानां मध्ये। एक क्षणमिति पूर्वान्वयि । अपरमत्तरान्वयि । नन सीतायास्तदभावेऽपि लङ्केशे तत्सत्त्वमत आह-जगदिति । उक्तिभिरिति । यथाक्रममिति शेषः । तथैव जगगुरुपत्नीविषयकतयैव । प्राधान्येनेति । तथा च न तद्भावाभासध्वनित्वमिति भावः । कलहशीलेति । अवीतरागादिविषयमिदम् । अत एवाह-वीतेति । कदर्यो
For Private And Personal Use Only