________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
१०३ इह तादृशप्रियवचनश्रवणं विभावः । नयनकोणगतशोणरुचेर्नाशः, तदभिव्यक्तः प्रसादो वानुभावः । उत्पत्तिकालावच्छिन्नो रोषनाशो व्यङ्गयः । तथा भावोदयो भावस्योत्पत्तिः । उदाहरणम्'वीक्ष्य वक्षसि विपक्षकामिनीहारलक्ष्म दयितस्य भामिनी ।
अंसदेशवलयीकृतां क्षणादाचकर्ष निजबाहुवल्लरीम् ॥' अत्रापि दयितवक्षोगतविपक्षकामिनीहारलक्ष्मदर्शनं विभावः । प्रियांसंदेशवलयीकृतनिजबाहुलताकर्षणमनुभावः । रोषादयो व्यङ्गयाः । यद्यपि भावशान्तौ भावान्तरोदयस्य, भावोदये वा पूर्व भावशान्तेरावश्यकत्वान्नानयोर्विविक्तो व्यवहारस्य विषयः । तथापि द्वयोरेकत्र चमत्कारविरहात्, चमत्काराधीनत्वाच्च व्यवहारस्य, अस्ति विषयविभागः ।
एवं भावसंधिरन्योन्यानभिभूतयोरन्योन्याभिभावनयोग्ययोः सामानाधिकरण्यम् ।
उदाहरणम्'यौवनोद्गमनितान्तशङ्किताः शीलशौर्यबलकान्तिलोभिताः ।
संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ॥' अत्र भगवद्दाशरथिगतस्य लोकोत्तरयौवनोद्गमस्य, तादृशस्यैव शीलशौर्यादेच दर्शनं विभावः । नयनगतसंकोचविकासावनुभावः । वीडौत्सुक्ययोः संधिर्व्यङ्गयः ।
तथा भावशबलत्वम्भावानां बाध्यबाधकभावमापन्नानामुदासीनानां वा व्यामिश्रणम्। एकचमत्कृतिजनकज्ञानगोचरत्वमिति यावत् ।
वच्छिन्न एव । मुदिरालिमेघपतिः । नाशस्य साक्षात्तत्कार्यत्वाभावादाह-तदभीति। ननु ततः किमत आह-चमत्कारेति । एवं च यत्कृतो यत्र चमत्कारस्तत्र तब्यवहार इति भावः । सामानाधिकरण्यमिति । एकदेशवृत्तित्वविशिष्टैककालवृत्तित्वरूपमित्यर्थः । सूक्ष्मभेदस्त्वकिंचित्कर इति भावः । शबलतायां त्वेकदेशवृत्तित्वरूपमेव सामानाधिकरण्यमिति विशेषः । तादृशस्यैव लोकोत्तरस्यैव । एकेति । एकं यत्तादृशं
For Private And Personal Use Only