SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ काव्यमाला। उदाहरणम्'पापं हन्त मया हतेन विहितं सीतापि यद्यापिता सा मामिन्दुमुखी विना बत वने किं जीवितं धास्यति । आलोकेय कथं मुखानि कृतिनां किं ते वदिष्यन्ति मां __ राज्यं यातु रसातलं पुनरिदं न प्राणितुं कामये ॥" अत्र मत्यसूयाविषादस्मृतिवितर्कव्रीडाशङ्कानिर्वेदानां प्रागुक्तस्वस्वविभावजन्मनां शबलता। यत्तु काव्यप्रकाशटीकाकारैः 'उत्तरोत्तरेण भावेन पूर्वपूर्वभावोपमर्दः शबलता' इत्यभ्यधीयत तन्न । 'पश्येत्कश्चिन्चल चपल रे का त्वराहं कुमारी हस्तालम्ब वितर हहहा व्युत्क्रमः क्वासि यासि' इत्यत्र शङ्कासूयावृतिस्मृतिश्रमदैन्यमत्यौत्सुक्यानामुपमर्दलेशशून्यत्वेऽपि शवलताया राजस्तुतिगुणत्वेन पञ्चमोल्लासे मूलकतैव निरूपणात् । स्वोत्तरविशेषगुणेन जायमानस्तु नाशो न व्यङ्गयः । न वोपमर्दपदवाच्यः । नापि चमत्कारी । तस्मात् __ 'नारिकेलजलक्षीरसिताकदलमिश्रणे । विलक्षणो यथा स्वादो भावानां संहतो तथा ॥' अत्रेदं बोध्यम्--य एते भावशान्त्युदयसंधिशवलताध्वनय उदाहतास्तेऽपि भावध्वनय एव । विद्यमानतया चळमाणेष्विवोत्पत्त्यवच्छिन्नत्वविनश्यदवस्थत्वसंधीयमानत्वपरस्परसमाधिकरणत्वैः प्रकारैश्चय॑माणेषु भावेष्वेव प्राधान्यस्यौचित्यात, चमत्कृतेस्तत्रैव विश्रान्तेः । यद्यप्युत्पत्ति ज्ञानं महावाक्यार्थबोधस्तद्विषयत्वमित्यर्थः । पापमिति। अत्र पापमित्यनेन मतिः, हन्तेत्यादिनासूया, सीतापीत्यादिना विषादः, सेत्यनेन स्मृतिः, मामित्यादिना वितर्कः, आलो. केयेत्यादिना व्रीडा, किं त इत्यादिना शङ्का, राज्यमित्यादिना निर्वेदः, इति बोध्यम् । पश्येत्कश्चिदिति शङ्का । चल चपल रे इत्यसूया । का त्वरेति धृतिः । अहं कुमारीति स्मृतिः । हस्तालम्ब वितरेति श्रमः । हहहेति दैन्यम् । व्युत्क्रम इति दैन्यम् । क्वासीति मति: । यासीत्यौत्सुक्यम् । औत्सुक्यानामिति । मध्ये पूर्वपूर्वस्योत्तरोत्तरेणेति शेषः । मूल कृतैव प्रकाशकृतैव । तत्त्वेऽप्याह-न वेति । तत्त्वेऽप्याह-नापीति । अत्र च सहृदयहृदयमेव प्रमाणमिति भावः । उपसंहरति-तस्मादिति । चर्णिकेयम् । संहती मिश्रणे । भावशान्त्यदेति । भावसंबन्धिशान्त्यादीनां ध्वनय इत्यर्थः । स्थिती For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy