________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
४८३ सूत्रं प्राप्तमिति परिसंख्या भवितुमर्हति । पूर्वतन्त्रे तु नियमपरिसंख्ययोभैदेन परिभाषणम् । यदाहुः
'विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति ।
तत्र चान्यत्र च प्राप्ते परिसंख्येति गीयते ॥ विधिः-'स्वर्गकामो यजेत' इत्यादिः । यागादेः प्रकारान्तरेणाप्राप्तेः । नियमः-ब्रीहीनवहान्त, समे देशे यजेत' इत्यादिः । पुरोडाशनिर्माणफलोपधायकतावच्छेदककोटिप्रविष्टाया वितुषतायाः संपादकत्वेनावहननस्य प्राप्तेर्नखविदलनसमवधानकालावृत्तित्वेन, यागाधिकरणतया समदेशप्राप्तेविषमदेशसमवधानकालावृत्तित्वेन च पाक्षिकत्वात् । परिसंख्या'इमामगृह्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते, पञ्च पञ्चनखा भक्ष्याः' इ. त्यादिः । रशनाग्रहणलिङ्गेनाश्वाभिधानी गर्दभाभिधान्योरादानस्य युगपत्प्राप्तत्वात् । इत्यलमप्रकृतचिन्तया ।
इयं च तावहिविधा-शुद्धा प्रश्नपूर्विका च । द्विविधाप्यार्थी शाब्दी चेति चतुर्विधा । यथा'सेवायां यदि साभिलाषमसि रे लक्ष्मीपतिः सेव्यतां
चिन्तायामसि सस्टहं यदि चिरं चक्रायुधश्चिन्त्यताम् । आलापं यदि काङ्क्षसे मधुरिपोर्गाथा तदालप्यतां
स्वापं वाञ्छास चेन्निरर्गलसुखे चेतः सखे सुप्यताम् ॥' अत्र यदिघटितवाक्यनिवेदितस्य रागप्राप्तस्य सेवादेः कर्मतायाः परमेश्वरे विषयान्तरे च प्राप्तत्वेन लोडर्थघटितवाक्यार्थवैयर्थ्यप्रसङ्गाद्विषयान्तरं न सेव्यतामित्यादिरूपा विषयान्तरे तत्तत्क्रियाकर्मत्वव्यारत्तिस्तात्पर्यविषयतया कल्पमानत्वादार्थी शुद्धा च ।
'किं तीर्थ हरिपादपद्मभजनं किं रत्नमच्छा मतिः
किं शास्त्रं श्रवणेन यस्य गलति द्वैतान्धकारोदयः । किं मित्रं सततोपकाररसिकं तत्त्वावबोधः सखे
कः शत्रुर्वेद खेददानकुशलो दुर्वासनासंचयः ॥' शास्त्रे । पूर्वतन्त्रे पूर्वमीमांसायाम् । यदाहुातिककाराः । द्वितीये आह-यागेति ।
For Private And Personal Use Only