________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०
काव्यमाला ।
च्यम् । उदासीने वक्तरि तत्त्वार्थकथनपरस्यास्य पद्यस्य वक्तृगतरतिव्यञ्जकत्वासंगतेः, गुणीभूतस्यार्थस्य वाच्यार्थापेक्षया प्रधानतया ध्वनिव्यपदेशहेतुतायाः प्राचीनैः स्वीकाराच्च । अन्यथा
'निरुपादानसंभारमभित्तावेव तन्वते ।
जगच्चित्रं नमस्तस्मै कलाश्वाध्याय शूलिने ॥ इत्यत्र व्यतिरेकध्वनित्वं तैरुक्तमसंगतं स्यात् । व्यतिरेकस्य भगवद्विषयकरतिभावाङ्गताया अनुभवसिद्धत्वात् । शब्दशक्तिमूलवस्तुध्वनिर्यथा_ 'राज्ञो मत्प्रतिकूलान्मे महद्भयमुपस्थितम् ।
बाले वारय पान्थस्य वासदानविधानतः ॥' अत्रोपभोगं देहीति वस्तु राजपदशक्तिमूलानुरणनविपयः । राजपदाचन्द्रोपस्थितावेव चन्द्रजनितभयवारणकारणत्वेनोपभोगस्याभिव्यक्तेः । न चात्र नृपचन्द्रयोरुपमानोपमेयभावः, भेदापोहरूपं रूपकं वा तथास्त्विति वाच्यम् । इह नृपरूपस्यार्थस्य चन्द्ररूपार्थगोपनमात्रार्थमुपात्तत्वेन युगपदुल्लसितोपमानोपमेयकयोरुपमारू पकयोस्तात्पर्यविषयताया अयोगात् । न चासंसृष्टार्थद्वयबोधने वाक्यभेद इति वाच्यम् । तुल्यकक्षतया द्वयोरसंसृष्टयोरर्थयोः प्रतिपिपादयिषितत्व एव तस्याभ्युपगमात् । इह त्वाच्छादकप्रतीतिसमये आच्छाद्याप्रतीतिः, आच्छाद्यप्रतीतो चाच्छादकन्यग्भाव एवेति नास्ति तुल्यकक्षता । शेषः । उदासीने रतिरोषोभयानाविष्टे । सतीति शेपः । अन्यथा तथानङ्गीकारे। निकपेति । उपादानसंभार उपकरणसमूहस्तूलिकादिकं तद्रहितं यथा स्यात्तथा अभित्तावेव शन्य एव चित्रं नानाकारं जगत्तन्वते तस्मै अनिर्वचनीयस्वरूपाय, कला चन्द्रस्य घोडशो भागस्तेन श्लाध्याय शूलिने महादेवाय नमः । पक्ष चित्रमालेख्यम् । कला आलेख्यक्रिया कौशलं च । तैः प्राचीनः । राक्ष इति । हे बाले, त्वं मत्प्रतिकूलाद्राज्ञः सकाशादुपस्थितं महत्पान्थस्य मम भयं वासदानविधानतो वारयेत्यन्वयः । वासश्च दानं चेत्यर्थः । भेदापोहति । अभेदेत्यर्थः । तथास्तु अनुरणनविषयोऽस्तु । तथा च तादृशालंकारध्वनेरे. वोदाहरणम्, न वस्तुध्वनेरिति भावः । युगपदुल्लसिते उपमानोपमेये ययोस्तयोरित्यर्थः । तस्य वाक्यभेदस्य । आच्छादकेति । नपरूपार्थेत्यर्थः । आच्छादोति । चन्द्ररूपार्थत्यर्थः । शक्तिनियमेनेति भावः । अत्र वाले इति पदेन व्याघस्य वाच्यादुपमानताकर.
For Private And Personal Use Only