SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। १३१ काव्यप्रकाशे तु-शनिरशनिश्च तमुच्चैः' इत्यादिकमुदाहृत्य 'अत्र विरुद्वौ द्वावपि त्वदनुवर्तनार्थमेकं कार्य कुरुत इति ध्वन्यते' इत्युक्तम् । तञ्च 'द्वौ शन्यशनी उदारानुदारौ चैकं कार्य हननं भानं च' इति व्याख्यातृभिर्व्याख्यातम् । तत्र शन्यशन्योर्हननक्रियाकर्तृत्वान्वयेऽप्युदारानुदारयो नकर्तृतत्पदार्थविशेषणयोस्तत्प्रकारविशेषणयोर्वा साक्षादानकर्तृत्वान्वयाभावात्कथमेककार्यकारित्वं संगतं स्यात् । अतो विरुद्धौ द्वावित्यादि प्रथमाविषयम् । द्वितीयाधे तु विरोधाभास एव । कर्तर्यभेदेनान्वयमात्रेण कुरुत इत्यस्योपपत्तिश्चेत्, अस्तु । द्वितीयार्धेऽपि विरुद्धौ द्वावित्यादि वस्तु व्यङ्ग्यम् । परं त्वर्धद्वयेऽपि विरोधाभासालंकारशबलितमेव । शत्रुविरुद्धस्य शत्रुत्वासंभवादेकस्य शन्यशनिकर्तृकहननकर्मत्वायोगेनाद्याथै, उदारत्वानुदारत्वयोरेकाधिकरणवृत्तित्वायोगाहितीयार्धे च विरोधस्य स्फुटत्वात् । अर्थशक्तिमूलानुरणनं यथा 'गुञ्जन्ति मञ्ज परितो गत्वा धावन्ति संमुखम् । आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रताः ॥' अत्र मधुव्रतकर्तृकम गुञ्जनाद्यैर्वस्तुभिः कविकल्पितत्वविरहेण स्वतः णादयोग्यमेतत् । शनिरिति । शनिम्रहः, अशनिर्वनं च । पुनस्त्वर्थे । उदार उद्भटः । अनुदार अनुगतदारः । नृपदत्तैश्वर्येणाप्रवासात् । न उदारो यस्मादिति वा । पक्षे. ऽशनिः शनिविरोधी । नत्रो असुरादाविव विरोध्यर्थकत्वात् । अनुदार उदारादन्यः । शवलितमेव । उक्तवस्तुव्यङ्गमित्यनुपङ्गः । तदलंकारसत्त्वे हेतुमाह--शत्रविरुद्धस्योति । विरोधिशत्रोविरोध्यन्तरमित्रत्वादे कस्य विरोधिद्वयकर्तकहननकर्मत्वायो. गेन तादृशहननकर्मत्वयोरपि विरोधादिति भावः । राज्ञो विहताशत्वमादाय कोपस्याति. शयितत्वमादाय वा तत्परिहारः । अश निरित्यत्र न विरुद्धार्थक इत्युक्तम् । न चैवं विरोधेऽस्य कथं व्यङ्ग्यता । तन्मूलकहननकर्मत्वयोर्विरोधस्य व्यङ्गयत्वेनाक्षतेः । तमादायैव च विरोधाभासाः । तस्यैव समाधानात् । न वनयोविरोधस्यास्य समाधानमस्ति । एते. नैकर्मिगतत्वे एव विरोधस्यालंकारत्वान्नात्र विरोधालंकार इति परास्तम् । तादृशकमत्वयोरेकधार्मिगतत्वस्य स्पष्टत्वात् । अन्ये तु विरोधिनोरप्येकशत्रुसंभवान तादृशहननक. मत्वयोविरोध इत्याहुः । द्वितीयार्धे चानुगतदार इत्यर्थेन तत्परिहार उक्त एवेति दिक । रणनं यथेति । स्वतः संभविवस्तुना वस्तुध्वनिर्यथेत्यर्थः । संमुखमिति । सरस्या For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy