________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
द्वितीयो यथा'पुरः पुरस्तादरिभूपतीनां भवन्ति भूवल्लभ भस्मशेषाः ।
अनन्तरं ते भृकुटीविटङ्कात्स्फुरन्ति रोषानलविस्फुलिङ्गाः ॥' अत्र भेदद्वये प्रयोजकातिशयकृतः प्रयोज्यशैध्यातिशयो गम्यः । एवं च 'एतद्भेदपञ्चकान्यतमत्वमतिशयोक्तिसामान्यलक्षणम्' इति प्राचीनाः । अन्ये तु.---'संबन्धेऽसंबन्धः असंबन्धे संबन्ध इति भेदद्वयं नातिशयोक्तिः । एतादृशातिशयस्य रूपकदीपकोपमापइत्यादिषु स्वभावोक्तिभिन्नेषु प्रायशः सर्वेप्वलंकारेषु सत्त्वात् । नहि यथास्थितवस्तूक्तावस्ति काचिद्विच्छित्तिः। कार्यकारणपौर्वापर्यविपर्ययस्यापि तेनैव व्याप्ततया भेदान्तरतानापत्तेश्च । तस्माद्विषयिणा निगीर्याध्यवसानं विषयस्य, तस्यैवान्यत्वम्, यद्यादिशब्दैरसंभविनोऽर्थस्य कल्पनम्, कार्यकारणपौर्वापर्यविपर्ययश्वेत्येतदन्यतमत्वमतिशयोक्तित्वम्' इत्याहुः । नव्यास्तु-'निगीर्याध्यवसानमेवातिशयोक्तिः । प्रभेदान्तरं त्वनुगतरूपाभावादलंकारान्तरमेव । ननु प्रस्तुतान्यत्वभेदे भेदेनाभेदस्य, असंबन्धे संबन्ध इति भेदे संबन्धेनासंबन्धस्य, संबन्धेऽसंबन्ध इति भेदे असंबन्धेन संबन्धस्य, कार्यकारणपौर्वापर्यविपर्यये च तेनैवानुपूर्वी । अस्य च निगरणं रत्नाकरविमर्शिनीकारायुक्तप्रकारेण संभवतीति चेत्, न । अन्यत्वादिभिरनन्यवस्तुप्रतीतेखे चमत्कारित्वम् । न त्वनन्यत्वादिभिः । तेषामनुभवासंगतेः । न चासमुच्छलनं तत्र हेतुरिति बोध्यम् । पुर इति । राजवर्णनमिदम् । हे भूवल्लभ, पुरः पुरस्तात् पूर्वपूर्व शत्रुरूपाणां गज्ञां भस्मरूपाः शेषा अवशेषा भवन्ति पश्चात्तव भृकुट्येव विटङ्कं कपोलपालिका तस्माक्रोधरूपानेविस्फुलिङ्गाः स्फुरन्तीत्यर्थः । अत्र भेदद्वये बाधितत्वं परिहरति-अति । स्वभावोक्तो सर्वथा तदसत्त्वादाह-स्वभावोक्तीति । अन्यत्रापि क्वचिदसत्त्वादाह-प्रायश इति । सत्त्वादिति । तथा च तेषामप्यतिशयोक्तित्वापत्तिरिति भेदेन तत्कथनासंगत्यापत्तिरिति भावः । ननु तहि तत्र कोऽलंकारोऽत आह-नहीति । अभ्युपेत्याप्याह-कार्येति । तेनैव प्राचीनोक्तभेदद्वयेनैव । अभेदस्येत्यादि षष्ठयन्तानां वक्ष्यमाणनिगरणेऽन्वयः । विपर्यये च विपर्यय इति भेदद्वये च । तेनैव कार्यकारणपौर्वापर्यविपर्ययेणैव । न त्वनन्यत्वादिभिरिति ।
१. हे भूवल्लभ, पुरस्तात् प्रथमं अरिभूपतीणां शत्रुनृपाणां पुरो नगर्यो भस्मशेषा भ. वन्ति अनन्तरं-इत्यादि समुचितोऽर्थः.
For Private And Personal Use Only