________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- - ..
.
....
...
... ...
रसगङ्गाधरः ।
५१५ रणभावो नात्र विवक्षितः । किं तु संनिधानेऽपि तद्गुणग्रहणाभाव इत्येतावन्मात्रम् । अतो विशेषोक्तेरतद्गुणो भिन्न इति तु न युक्तम् । संनिधानेऽपीत्यपिना विरोधोऽपि विवक्षित इति गम्यते । अन्यथा जीवातोरभावादलंकारतैव न स्यात् । स च कार्यकारणभावाविवक्षणेन भवतीति कथमुच्यते न विवक्षित इति' इत्यप्याहुः ।
इति रसगङ्गाधरेऽतद्गुणप्रकरणम् । अथ मीलितम्स्फुटमुपलभ्यमानस्य कस्यचिद्वस्तुनो लिङ्गैरतिसाम्याद्भिन्नत्वेनागृह्यमाणानां वस्त्वन्तरलिङ्गानां स्वकारणाननुमापकत्वं मीलितम् । संग्रहश्च
'भेदाग्रहेण लिङ्गानां लिङ्गैः प्रत्यक्षवस्तुनः । ..
अप्रकाशो धनध्यक्षवस्तुनस्तन्निमीलितम् ॥' सामान्यवारणाय अनध्यक्षेति । तत्राध्यक्षस्यैव वस्त्वन्तरस्याग्रहणम् । तद्गुणे वस्त्वन्तरगुणानां भिन्नत्वेनाग्रहणेऽपि वस्त्वन्तरस्य ग्रहणमस्त्येवेति न तत्र प्रसङ्गः । उदाहरणम्
'जलकुम्भमुम्भितरसं सपदि सरस्याः समानयन्त्यास्ते ।
तटकुञ्जगूढसुरतं भगवानेको मनोभवो वेद ॥' अत्र सुरतगमकानां स्वेदकम्पनिःश्वासानां जलकुम्भानयनत्वराजनितैस्तैमैदस्याग्रहात्सुरतस्याप्रकाशः । यथा वा--
'सरसिरुहोदरसुरभावधरितबिम्बाधरे मृगाक्षि तव ।
वद वदने मणिरदने ताम्बूलं केन लक्षयेम वयम् ॥' अत्र प्रियेण ताम्बूलं कुतो न गृह्णासीत्युक्ते एतावन्तं समयं ताम्बूलानि भुक्त्वैव समागतास्मीत्युक्तवतीं प्रति तस्येयमुक्तिः । पूर्वोदाहरणे प्रत्यक्षवस्तुलिङ्गान्यागन्तुकानि, अत्र तु साहजिकानीति विशेषः ।
इति रसगङ्गाधरे मीलितालंकारप्रकरणम् । प्राग्वदाह-अथेति । लिङ्गानामन्यदीयलिङ्गानाम् ॥ इति रसगङ्गाधरममप्रकाश मीलितप्रकरणम् ॥
For Private And Personal Use Only