SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। ३३१ उदाहरणम्'आपद्गतः खलु महाशयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदारभावम् । कालागुरुर्दहनमध्यगतः समन्ता ल्लोकोत्तरं परिमलं प्रकटीकरोति ॥' अत्र विस्तारप्रकटने वस्तुत ऐकरूप्येणाभिमते । यथा वा'विश्वाभिरामगुणगौरवगुम्फितानां रोपोऽपि निर्मलधियां रमणीय एव । लोकप्टणैः परिमलैः परिपूरितस्य कालागुरोः कठिनतापि नितान्तरम्या ॥' मायां गगनाधिकरणकभानुकटकशोभा विशिष्टभूम्यधिकरणकत्वत्कर्तुकशोभेति बोधः । वैशिष्टयनियामकसंबन्धश्च स्वकर्तृसदृशकर्तृकत्वमेव । संबन्धविशेषतात्पर्यग्राहको च यथातथाशब्दौ । नैवं प्रकृते स्मरणान्तर्भावेणोपमानोपमेयभावः । किं तु तादृशपद्मसदृशं तादृशमाननमित्येव । न च वाक्यार्थीपमायां तादृशशोभाश्रयभानुसदृश इंदृशशोभाश्रयस्त्वमिति बोधः । क्रियाविशेषणस्य प्रथमान्तार्थस्योपमानवेनान्वयायोगात् । प्रतिवस्तू. पमायां तु तादृशसंबन्धद्योतकपदाभावाद्गम्यतेवौपम्यस्येति विशेषः । यद्वा वाक्यार्थोपमायां तादृशसंबन्धोऽपि यथातथापदद्योत्यत्वात्प्रकार एव । 'यत्र वाक्यद्वयगतानां पदार्थानां सर्वेषां परस्परसाम्यं तत्र प्रतिवस्तूपमा' इति शरदागमकृतः । आपढ़त इति । अत्रोदाहरणे आपद्गत: सत्पुरुषोऽपूर्वोदार्यवान् स्वकीर्तित्वादित्यर्थविशेषरूपे न कालागरोदृष्टान्तता । यथा पर्वत एतदहिमान् एतद्भूमात् इत्यत्र महानसस्य । तस्माकालागुरुरुपदृष्टान्तेन तत्तिसामान्यधर्मावच्छिन्नयोर्व्याप्तिसिद्धौ ‘यत्सामान्ययोव्याप्तिस्तद्विशेपयोः' इति न्यायेन पूर्वोक्तविशेषनियमसिद्धिः । उपमा चापगतः सत्पुरुषो दहनमध्यगतकालागुरुसदृश इति । साधारणधर्मथ विम्बप्रतिविम्बभावापन्नापर्वोदार्यलोकोत्तरपरिमलविशेषणकं विस्तारणम् । न वस्तुप्रतिवस्तुभावापानम् । एवं वैयधिकरण्येऽपि व्यतिरेक आक्षिप्यते । तत्र च पूर्वोक्तरीत्या एकविशेषेऽपरविशेषस्य दृष्टान्तत्वाभावात्तद्वत्तिसामान्यावच्छिन्नव्यतिरेक आक्षिप्यते । सिद्धे च तस्मिस्तद्विपरीतदृष्टान्तेन तादृशमा. मान्यावच्छिन्नान्वयनियमसिद्धौ यत्सामान्ययोरिति न्यायेन तादृशविशेषावच्छिन्नकाव्योतान्वयनियमसिद्धिरिति बोध्यम् । विश्वाभिरामेति । जगद्रमणीयेत्यर्थः । गुम्फि For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy