________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
काव्यमाला। अपरामूलो यथा'वधान द्वागेव द्रढिमरमणीयं परिकर
किरीटे बालेन्दु नियमय पुनः पन्नगगणैः । न कुर्यास्त्वं हेलामितरजनसाधारणधिया
जगन्नाथस्यायं सुरधुनि समुद्धारसमयः ॥' । अत्र जगन्नाथस्येत्यनेन शक्य एवानेकपापविशिष्टत्वेन लक्ष्यते । पापानां पदान्तरेणानिर्वाच्यत्वं व्यङ्ग्यम् । कुन्ताः प्रविशन्तीत्यादौ वाच्यगततैक्ष्ण्यादिलक्ष्ये । तदेवमेते प्रागुक्ता द्वयुत्थातिरिक्ताः सर्वेऽपि ध्वनय एकस्मिन्वाक्ये यद्येकपदमात्रगतास्तदा पदध्वनितया व्यपदिश्यन्ते । नानापदगततायां तु वाक्यध्वनितयेति ।
अथ केयमभिधानाम । यन्मूलः प्रथमं निरूपितोऽयं ध्वनिप्रपञ्चः । उच्यते_ शक्त्याख्योऽर्थस्य शब्दगतः, शब्दस्यार्थगतो वा संबन्धविशेषोऽभिधा॥
सा च पदार्थान्तरमिति केचित् । 'अस्माच्छब्दादयमर्थोऽवगन्तव्य इत्याकारेश्वरेच्छैवाभिधा । तस्याश्च विषयतया सर्वत्र सत्त्वात्पटादीनामपि घटादिपदवाच्यता स्यात् । अतो व्यक्तिविशेषोपधानेन घटादिपदाभिधात्वं वाच्यम्' इत्यपरे । 'एवमपीश्वरज्ञानादिना विनिगमनाविरहः स्यात्, अतः प्रथममतमेव ज्यायः' इत्यपि वदन्ति । यत्तु पत्तिवार्तिके-'शक्त्या प्रतिपादकत्वमभिधा' इत्यप्पदीक्षितैरुक्तं तत्तुच्छम् । उपपत्तिविरोधात् । तथाहि-इह शब्दाजायमानायामर्थोपस्थितौ कारणीभूतं यदीयज्ञानं सा शब्दवृत्तिरभिधाख्या । लक्ष्यतया च प्रस्तुताप्रतिपादकत्वस्य प्रतिपत्तिहेतुत्वरूपस्य शब्दगतस्य न ज्ञानं प्रतिपत्तौ करणम् । अतः कथं अपरेति । अजहत्स्वार्थेत्यर्थः । द्रढिमेति तृतीयातत्पुरुषः । नियमय बधान । शक्य एवेति । जगन्नाथत्वेनेति शेषः । अनेनाजहत्स्वार्थत्वं प्रकटितम् । पदान्तरेण जगनाथपदातिरिक्तेन । तैक्ष्ण्यादिलक्ष्य इति । वाच्यार्थगतं यत्तैक्ष्ण्यादि तल्लक्ष्यवृत्तितया व्यङ्गयमित्यर्थः । उपसंहरति--तदेवमिति । विनिगमनाविरहादाह-शब्दस्येति । केचित्, वैयाकरणमीमांसकादयः । अपरे, नैयायिकाः । एवमपि उक्तरी
For Private And Personal Use Only