SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । १३९ घटितसमासविषयत्वेऽपि न विरोधः । न तु शुद्धैकपदे तस्मिन्नानार्थाना - नार्थयोरसमावेशात् । अन्ये तु — 'अर्थशक्तिमूलकत्वव्यपदेशे नानार्थप्रकाशकशब्दशक्त्युल्लास्यत्वसामान्यशून्यत्वं तन्त्रम् । विषयप्राचुर्यात् । शब्दशक्तिमूलकत्वव्यपदेशे तु नार्थशक्त्युछास्यत्वसामान्यशून्यत्वं तथा । विषयदौर्लभ्यापत्तेः । नहि नानार्थशब्दमात्रघटितं पद्यं प्रचुरविषयम् । अतः शब्दशक्तिमूलकत्वेनैवायं शक्यव्यपदेशो ध्वनिः' इत्यप्याहुः । इत्थमभिधामूलस्त्रिविधोऽपि संक्षेपेण निरूपितो ध्वनिः । निरूपयिष्यते चांशतो यथावसरम् । लक्षणामूलस्तु निरूप्यते— तत्र वक्ष्यमाणलक्षणायां लक्षणायां प्रयोजनवत्याः षड्विधायाः सारो - पसाध्यवसानाभ्यां गौणीशुद्धाभ्यां च विभक्तानां भेदानां चतुर्णामलंकारात्मना परिणतत्वाद्वौ भेदौ ध्वन्याश्रयतया स्थितौ, जहत्स्वार्थी अजहंत्स्वार्था चेति । तन्मूलौ च द्वौ ध्वनेः प्रभेदौ । तयोर्जहत्स्वार्थामूलो यथा - 'कृतं त्वयोन्नतं कृत्यमर्जितं चामलं यशः । यावज्जीवं सखे तुभ्यं दास्यामो विपुलाशिषः ॥' इयं कस्यचिदपकारिणं प्रत्युक्तिः । त्वया कृतेऽप्यपकारे परमखेदतो मधुरमेव यो भाषे, न परुषं तस्मिन्नेवंजातीयके मयि पापमाचरतस्तव पापिष्ठत्वं कथं शक्यते वक्तुमिति व्यङ्ग्यम् । ध्वनेः । न विरोध इति । तस्याप्यवान्तरपदत्वमादाय पदसमूहत्वादिति भावः । मापदव्यावर्त्यमाह - न त्विति । सामान्यशून्यत्वमिति । सामान्याभाव इत्यर्थः । तथा तन्त्रम् । कारणमिति तदर्थः । अत इति । तथा वक्तुमशक्यत्वेन । तद्भिन्नत्व एव तत्त्वस्यावश्यवक्तव्यत्वादित्यर्थः । अयं द्वयुत्थो ध्वनिः । उक्तरीत्या भेदसंभव एवात्रारुचिः । उपसंहरति-- इत्थमिति । तत्र निरूपणीये तस्मिन् । वक्ष्यमाणेति । वक्ष्यमाणं लक्षणं यस्यास्तस्यामित्यर्थः । सत्यामिति शेषः । अलंकारात्मनेति । रूपकातिशयोक्तिहेत्वलंकारात्मनेत्यर्थः । जहत्स्वार्था अजहत्स्वार्था चेति । अनयोरेवोपादानलक्षलक्षणेति व्यवहारः कथं कीदृशम् । अत्रोन्नतादिपदानां स्वार्थत्यागेनाधमादौ लक्षणा । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy