SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। ३४७ प्रतीपादिवारणाय तृतीयान्तं वैधर्म्यपरम् । तत्र चोपमानतामात्रकृत एवोत्कर्षः, न वैधर्म्यकृतः । साधर्म्यस्यैव प्रत्ययात् । अधिकगुणवत्त्वमात्रम्, उपमानगतापकर्षमात्रं वा न व्यतिरेकस्वरूपम् । तयोरुपमेयोत्कपांक्षेपमन्तरेणासुन्दरत्वात् । अत एव न सादृश्याभावमात्रम् । उपमानादुपमेयस्यापकर्षेऽपि तत्संभवात् । तस्य च वास्तवत्वेनासुन्दरत्वात् । उपमेयोत्कर्षविशिष्टत्वेन सादृश्याभावविशेषणे तस्यैवालंकारत्वौचित्यात् । उदाहरणम्'अनिशं नयनाभिरामया रमया संमदिनो मुग्वस्य ते । निशि निःसरदिन्दिरं कथं तुलयामः कलयापि पङ्कजम् ।।' अयं चोपमेयोत्कर्षकोपमानापकर्षकयोधर्म्ययोर्द्वयोरप्युपादानानुपादानाभ्यामेकतरानुपादानेन च तावच्चतुर्धा । सोऽप्युपमायाः श्रौतीत्वार्थीत्वाक्षिप्तात्वैादशविधो भवन्सश्लेषनिःश्लेषत्वाभ्यां चतुर्विंशतिप्रकार इति प्राश्नः । उदाहरणम्-~'कटु जल्पति कश्चिदल्पवेदी यदि चेदीदशमत्र किं विदध्मः । कथामिन्दुरिवाननं त्वदीयं सकलङ्कः स कलङ्कहीनमेतत् ॥' अत्रोभयोरुपादानम् । उपमा च श्रौती । अत्रैव 'कथामिन्दुरिवाननं तवेदं द्युतिभेदं न दधाति यत्कदापि' इति कृते, 'द्युतिभेदं खलु यो दधाति उपमेयस्योपमानत्वरूपगुणविशेषवत्त्वेनोत्कर्षस्य सत्त्वात् । अत आह-वैधयेति । तथा च ततस्तस्य वैधयंणोत्कर्षः स इति लब्धम् । नैवमतिप्रसङ्ग इत्याह-.-तत्र चेति । प्र. तीपादो चेत्यर्थः । उपमेयस्येति शेषः । मात्रपदेनोत्कर्षव्यावृत्तिः । तयोः अधिकगुणवत्त्वोपमानगतापकर्षयोः । मात्रं न व्यतिरेक इत्यनुपज्यते । अत एवेन्यस्यार्थमाह-उपमानादिति। तत्संभवात् साहश्याभावसंभवात् । इष्टापत्तावाह--तस्य चेति । वास्तवत्त्वेनेति । हीनगणस्योपमेयत्वादिति भावः । विशेषणे तस्य विशेषत्वाकरणे । तस्यैव उपमेयोत्कर्षस्येव । आधिकनिवेशे प्रयोजनाभावादिति भावः । संमदिन इति । सर्वदा नेत्रयो रमणीयया शोभया हेतुना हर्षयुक्तस्य तव मुखस्य गत्री निः शोभं कमलं अंशेनापि कथं तुल्यं कुर्म इत्यर्थः । नायकं प्रति तद्वयस्योक्तिः । अत्र सर्वदा सशोभत्वेन हृष्टत्वं वैधम्यम् । तत्र रात्री तदभाव इति भावः । सोऽपि चतुविधोऽपि । कदिति । नायिका प्रति नायकोक्तिः । चेच्छब्दः शङ्कायाम् । ईशं तवाननमिन्दुतुल्यमित्येवंरूपम् । अत्र उसीभाषणविषये । विदध्मः कुर्मः । स इन्दुः । एतत, आननम् । उभयो: सकलङ्कत्वतद्धी For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy