________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४
काव्यमाला।
उपचरितं यथा'क्वचिदपि कायें मृदुलं क्वापि च कठिनं विलोक्य हृदयं ते ।
को न स्मरति नराधिप नवनीतं किं च शतकोटिम् ॥' यथा वा_ 'अगाधं परितः पूर्णमालोक्य स महार्णवम् ।
हृदयं रामभद्रस्य सस्मार पवनात्मजः ॥' अत्र मृदुलत्वादयो धर्मा हृापचरिताः । इयांस्तु विशेषः-यदेकत्रानुभूयमाने हृदये स्मर्यमाणनवनीतादेः सादृश्यस्य सिद्धिः, अपरत्र तु स्मर्यमाणे हृदयेऽनुभूयमानसमुद्रस्येति । सादृश्यस्योभयाश्रयत्वात् । केवलशब्दात्मके यथा'ऋतुराजं भ्रमरहितं यदाहमाकर्णयामि नियमेन ।
आरोहति स्मृतिपथं तदैव भगवान्मुनिर्व्यासः ॥' अत्र भ्रमरहितशब्दो व्यासवसन्तयोः साधारणः । एवमन्येऽपि प्रभेदाः सुधीभिरुन्नेयाः । इह पुनर्दिङ्मात्रमुपदर्शितम् ।
इति रसगङ्गाधरे स्मरणालंकारनिरूपणम् । अथाभेदप्रधानेषु रूपकं तावन्निरूप्यते-- : उपमेयतावच्छेदकपुरस्कारेणोपमेये शब्दानिश्चीयमानमुपमानतादात्म्यं रूपकम् । तदेवोपस्कारकत्वविशिष्टमलंकारः। __ उपमेयतावच्छेदकपुरस्कारेणेति विशेषणादपद्भुतिभ्रान्तिमदतिशयोक्तिनिदर्शनानां निरासः । अपहृतौ स्वेच्छया निषिध्यमानत्वात्, भ्रान्तिमति च त्वादिपरिग्रहः । द्वितीयोदाहरणदाने बीजमाह-इयानिति । एकत्र आये । अपरत्र द्वितीये । समुद्रस्येतीति । सादृश्यस्य सिद्धिरित्यस्यानुषङ्गः । उभयाश्रयत्वादभयनिरूप्यत्वात् । ऋतुराज वसन्तम् । भ्रमराणां हितम् । नानापुष्पविकासद्वारा मधुप्रापकत्वात् । व्यासपक्ष भ्रमेण रहितमित्यर्थः । नियमेनेत्युत्तरान्वयो । इति स्मरणम् ।। इति रसगङ्गाधरमर्मप्रकाशे स्मरणालंकारनिरूपणम् ॥
प्रधानेष्वलंकारेषु । एवं च पूर्व भेदाभेदोभयप्रधाना निरूपिताः, इदानी बबलंकारव्यापित्वेन प्रसिद्धतया प्राधान्येन च रूपकनिरूपणमिति भावः । उपमेयतावच्छेदकमात्रप्रकारकप्रतीतिजनकशब्दबोधे विषये इत्यर्थः । तेनातिशयोक्तौ चन्द्रादिपदान्मुख.
For Private And Personal Use Only