________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८
काव्यमाला। व्योमानोकहपुष्पगुच्छमलिभिः संछाद्यमानोदरं
पश्यैतच्छशिनः सुधासहचरं बिम्बं कलङ्काङ्कितम् ॥ अत्र कलङ्कस्य दानाम्ब्वादिभिः प्रतिबिम्बनम्, लाञ्छितत्वाङ्कितत्वयोः शुद्धसामान्यरूपत्वमित्युक्तं चेत्यास्तां तावत् । तथा निर्दिष्टे शब्देनाभिहिते इत्यस्य येनकेनचिद्रूपेण शब्देनाभिहित इत्यर्थः, उताहो उपमेयतावच्छेदकरूपेण शब्देनाभिहिते । आये 'सुन्दरं कमलं भाति लतायामिदमद्भुतम्' इत्यत्रातिप्रसङ्गः । सुन्दरपदेन सुन्दरत्वेन रूपेण इदंपदेन च विषयस्याननस्य प्रतिपादनात् । न चात्र सुन्दरपदार्थस्यारोप्यमाणकमलान्वय एव, न तु वदनरूपविषयान्वय इति वाच्यम् । कमलपदेन कमलताद्रूप्येणाननस्यैव लक्षणयोपस्थानात्तत्रैव सुन्दरादिपदार्थान्वयो युक्तः, न तु विशेषणीभूते कमले । अथ तादृशं विषयमुद्दिश्य विषयिताद्रूप्यं यत्र विधीयते इत्यपि लक्षणवाक्यार्थः । प्रकृते च सुन्दरत्वावच्छिन्नमुद्दिश्य कमलताद्रूप्यस्याविधानान्नातिप्रसङ्ग इति चेत् । न । 'मुखचन्द्रस्तु सुन्दरः' इत्यादि रूपके समासगतयोविषयविषयिणोः पृथग्विभक्तिमन्तरेणोद्देश्यविधेयभावाभावादव्याप्त्यापत्तेः । द्वितीये त्वनिद्भुत इति विशेषणवैयर्थ्यम् । अपहृतावुपमेयतावच्छेदकस्य निषिध्यमानतया तेन रूपेण विषयस्यानिर्दिष्टत्वादेव लक्षणस्याप्रसक्तेः । निश्चयगताहार्यकहः कुटः शाल: । शद्वसामान्येति । अनयोर्वस्तुप्रतिवस्तुभावापन्नत्वादिदं चि. न्त्यम् । उक्तं चेति । चकार उदाहृतसमुच्चायकः । द्वितीयविशेषणं दूषयति-तथेति। उताहो अथवा । इत्यत्र रूपकातिशयोक्तिविषयेऽन्वय एवेति । तत एव चमत्कारात्सानिध्याच्चेति भावः । रूपकातिशयोक्ति ध्वनयितुमाह-कमलेति । तत्रैव आनन एव । न विति । पदार्थः पदार्थेनेति न्यायादिति भावः । तादृशं येनकेनचिद्रूपेण शब्देनाभिहितम् । इत्यपि उद्देश्यविधेयभावघटितोऽपि । अविधानादिति । तादृशमाननमु. द्दिश्य भानक्रियाया एव विधेयत्वादिति भावः । यद्वा सुन्दरत्वादेः कमलत्वादिविशिष्टे विशेषणत्वमेवोद्देश्यतावच्छेदकत्वम् । इयांस्तु विशेष:-यदतिशयोक्तावुपमेयधर्मस्योद्देश्यतावच्छेदकत्वाभाव एव । रूपके त्वनियम इतीति भावः । अत एवाह ---मुखचन्द्र स्त्विति । पृथगिति । उद्देश्यविधेयभावेन बोधे भिन्नविभक्तिजन्योपस्थितेस्तन्त्रत्वात् । तथा च व्यस्ते तथा प्रतीतिः, न समासे इत्यत्राव्याप्तिरिति भावः । ननपमेयतावच्छे. दकरूपेण शब्देनाभिहिते इति तदर्थेन न प्रागुक्तदोषोऽत आह-द्वितीये विति । अपहृतौ 'नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम्' इत्यत्र । अनिर्दिष्टत्वादेवति ।
For Private And Personal Use Only