SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३९ रसगङ्गाधरः । गितावच्छेदकविशिष्टवैशिष्टयेन श्रुत्या प्रतिपादनं तत्र विभावनाविशेषोक्त्योः शाब्दत्वम् । अन्यत्रार्थत्वम् । यथा-- 'भगवद्वदनाम्भोज पश्यन्त्या अप्यहर्निशम् । तृष्णाधिकमुदेति स्म गोपसीमन्तिनीदृशः ॥' लोके ह्यसंनिकर्षस्तृष्णाकारणम् । तदभावे संनिकर्षेऽपि तृष्णोपनिबहा । तथा संनिकर्षस्तृप्तिकारणम् । तस्मिन्सत्यपि तृप्त्यभावो बोधितः । परंतु कारणाभावकार्याभावयोर्न प्रागुक्तप्रकारेण प्रतिपादनमित्यार्थत्वमेव तदुभयसंशयसंकरस्य । अमुमेव चार्थ मनसिकत्य मम्मटभट्टैः 'यः कोमारहरः' इति पद्यमुदाहृत्योक्तम्---'अत्र स्फटो न कश्चिदलंकारः' इति । वामनस्तु—'एकगुणहानिकल्पनायां साम्यदायं विशेषोक्तिः' इत्याह । उदाजहार च-'घुतं हि नाम पुरुषस्यासिंहासनं राज्यम्' इति । अत्र हि द्यूते राज्यं तादात्म्येनारोप्यते । तत्र सिंहासनरहितं हि द्यूतं सिंहासनसहितराज्यतादात्म्यं कथं वहेदित्यारोपोन्मूलकयुक्तिनिरासायारोप्यमाणे राज्येऽपि सिंहासनराहित्यं कल्प्यते । तेन दृढारोपं रूपकमेवेदम् । न विशेषोक्तिः । एवं च 'अचतुर्वदनो ब्रह्मा द्विवाहुरपरो हरिः । __ अभाललोचनः शंभुभगवान्वादरायणः ॥' इति पौराणपद्येऽपि रूपकमेव । तथा गुणाधिक्यकल्पनायामपि तदेव । यथा-'धर्मों वपुष्मान्भुवि कार्तवीर्यः' इत्यादौ । एतेन 'एकगुणहान्युपचयादिकल्पनायां साम्यदाय विशेषणम्' इति विशेषालंकारं लक्षयन्तोऽपि प्रत्युक्ताः। इति रसगङ्गाधरे विशेषोक्तिप्रकरणम् । अथासंगतिःविरुद्धत्वेनापाततो भासमानं हेतुकार्ययोवैयधिकरण्यमसंगतिः। व्यवहार इति दिक् । न प्रागुक्तप्रकारेणेति । प्रतियोगितावच्छेदकवैशिष्टयेन श्रुत्या प्रतिपादनाभावादित्यर्थः ॥ इति रसगङ्गाधरमर्मप्रकाशे विशेषोक्तिप्रकरणम् ॥ For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy