SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २७६ www. kobatirth.org काव्यमाला । Acharya Shri Kailassagarsuri Gyanmandir गृहं शरणमिच्छतां कुलिशकोटिभिर्निर्मितं त्वमेक इह भूतले बहुविधो विधात्रा कृतः ॥ ' अत्र कविना यमत्वादिना रूपेण राज्ञो रूपवतः करणाद्रूपकेण विपक्षभूपालादीनामेतस्मिन्नायाते यमत्वादिना भ्रान्तिरपि संभवतीति भ्रा - न्तिमता, विपक्षभूपालादिभिरनेकैर्ग्रहीतृभिर्यमत्वादिभिरनेकैर्धर्मैरुल्लेखना - त्प्रागुक्कोल्लेख प्रकारेण च सह संकीर्णोऽयं सबन्धिषष्ठयन्तभेदप्रयुक्तवयनेकविधत्वक उल्लेखः । अत्रेदं बोध्यम् – प्रथमनिरूपितोल्लेख प्रकारे 'यं महाविष्णुरिति वैष्णवाः, शिव इति शैवाः, यज्ञपुरुष इति याज्ञिकाः, स्वभाव इति लोकायतिकाः, ब्रह्मेत्योपनिषदा वदन्ति सोऽयमादिपुरुषो हरिः' इत्यादौ तत्तग्रहीतृकतत्तत्प्रकारकज्ञानसमुदायस्य चमत्कारजनकतयानुभवसिद्धत्वेनालंकारत्वम् । द्वितीये तु प्रकारे 'यः शिष्टेषु सदयो दुष्टेषु करालः' इत्यादौ तत्तद्विषयभेदभिन्नस्य प्रकारसमुदायमात्रस्य तथात्वम् । न तु विद्यमानस्यापि ज्ञानांशस्य चमत्कारित्वेनाननुभवात् । चमत्कारनिबन्धनो ह्यलंकारभाव उपमादीनाम् । अत एवास्माभिः 'विषयाद्यन्यतमानेकत्वप्रयुक्त मेकस्य वस्तुनोऽनेकप्रकारत्वम्' इति द्वितीय उल्लेखो लक्षितः । एवं च 'लक्षणद्वयान्यतरत्वमुल्लेख सामान्यलक्षणतावच्छेदकम् ' इत्याहुः । परे तु 'प्रकारद्वयेऽपि वर्ण्यवृत्तित्वेन भासमानप्रकारसमुदाय एवोखः' इत्यपि वदन्ति । I र्षविरोधीति चिन्त्यमिदम् । प्रागुक्तो लेखेति । इदमपि चिन्त्यम् । ज्ञानस्यानिबन्धने च ज्ञानपर्यन्तस्य पूर्वोल्लेखस्य कथमप्यत्रासत्त्वात् । नियतव्यञ्जकसामग्र्यभावेनार्थस्यापि तस्यासत्त्वाचेति दिक । इतोऽपि भ्रान्तिरपि संभवतीति चिन्त्यमिति बोध्यम् । विषयाश्रसहचराणां संबन्धिनामत्र सत्त्वादाह - सबन्धिषष्ठयन्तेति । षष्ठयन्तार्थसंबन्धीत्यर्थः । कचित्तथैव पाठः । यं प्रकृतं राजानम् । एवमग्रेऽपि । जनकतयेति । इदं ज्ञानं चमत्कारीत्यनुभवाकारः । 'भिन्नप्रकार' इति पाठः । भिन्नत्वं प्रकारविशेषणमात्रव्यवच्छेद्यमाह - न त्विति । अन्यतरत्वस्य गुरुत्वाद्दुर्ज्ञेयत्वाच्चाह -परे त्विति । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy