SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। ७५ पप्रसङ्गात् । भावचमत्कारप्रकर्षाद्भावध्वनित्वम् । रसस्तु तंत्र व्यज्यमानोऽप्यचमत्कारित्वान्न ध्वनिव्यपदेशहेतुरित्यपि न शक्यं वदितुम् । चमत्काररहितरसव्यक्तौ मानाभावात् । रसे हि धर्मिग्राहकमानेनानन्दांशाविनाभावस्य प्रागेवावेदनात् । अस्तु वा प्राधान्येन ध्वन्यमानस्यापि भावस्य प्रान्ते रसाभिव्यञ्जकत्वम् । तथापि देशकालवयोवस्थादिनानापदार्थघटिते पद्यवाक्यार्थं तथाप्यतिव्याप्तिः । तस्य विभावानुभावभिन्नत्वे सति रसाभिव्यञ्जकत्वात् । नापि रसाभिव्यञ्जकचर्वणाविषयचित्तरत्तित्वं तत्वम् । भावादिचर्वणायामतिप्रसङ्गवारणाय चर्वणाविषयतेति चित्तत्तिविशेषणमिति वाच्यम् । 'कालागुरुद्रवं सा हालाहलवद्विजानती नितराम् । अपि नीलोत्पलमाला बाला व्यालावलिं किलामनुते॥' इत्यत्र हालाहलसदृशत्वप्रकारकज्ञाने अतिव्याप्तेः । तस्य विप्रलम्भानुभावत्वेन रसाभिव्यञ्जकचर्वणाविषयत्वात्, चित्तवृत्तित्वाच्च । नाप्यखण्डम् । तत्त्वे मानाभावात् । अत्रोच्यते-विभावादिव्यज्यमानहर्षाद्यन्यतमत्वं तत्वम् । यदाहु:--'व्यभिचार्यञ्जितो भावः' इति । हर्षादीनां च सामाजिकगतानामेव स्थायिभावन्यायेनाभिव्यक्तिः, सापि रसन्यायेति केचित् । व्याप्तेरेव च । तद्विशेषणत्वे व्यञ्जकत्वविशेषणत्वे । अस्तु वा प्राधान्येनेति । रसं प्रति गुणीभूतत्वेऽपि वाच्यातिशायित्वात्तद्धनित्वं राजानुगम्यमानविवहनप्रवृत्तभृत्यस्येव रसापेक्षयापि हि अस्य प्राधान्यमस्ति । अत एव न भावध्वनिविलोप इति भावः । तथापि उक्तस्थलेऽव्यायापत्त्यभावेऽपि । तथापि विभावानुभावभिन्नत्वे सति [शब्दभिन्नत्वे सति] रसव्यञ्जकत्वमित्युक्तावपि । भिन्नत्वे सतीत्युपलक्षणं शब्दभित्रत्वे सतीत्यस्यापि । नापीत्यस्य वाच्यमित्यत्रान्वयः । चर्वणा आस्वादः । चर्वणायामतीति । रसाभिव्यञ्जकचित्तवृत्तित्वस्य तस्यां सत्त्वादिति भावः। कालागुरुद्रवं नितरां हालाहलवद्विजानती सा बाला नीलोत्पलमालामपि व्यालावलि किलामनुत इत्यन्वयः । तस्य ज्ञानस्य । चित्तवृत्तित्वाञ्चेति । अत्रैवानुभावभिन्नत्वे सतीति विशेषणदाने को दोष इति चिन्त्यम् । अखण्डं भावत्वमिति शेषः । तत्त्वे अखण्डत्वे । विशेष्यमात्रोक्तौ तेषां शब्दवाच्यत्वे तत्त्वापत्तिः । अत विभावादीति । तावन्मात्रोक्तौ रसेऽतिप्रसङ्ग इति समुदितमुपात्तम् । अञ्जितोऽभिव्यक्तो व्यभिचारी भाव इत्यर्थः । स्थायिशावेति । प्रति For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy