SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । तीयचरणनिर्माणे वा एकतरानुपादानम् । सा च । 'सर्वानर्वाचीनान्निर्वा स्य मनोरथाननन्यजुषाम्' इति पूर्वार्धे तदनुपादनमिति । 'क्रूरसत्वाकुलो दोषाकरभूस्तोयधिर्यथा । न तथा त्वं यतो भूप स्थिरधीरसि निर्मलः ॥' अत्रोपमा श्रौती । श्लेषस्तु स्फुट एव । 'राजन्प्रचण्डमार्तण्डमण्डलोद्दण्डशासन । कथमक्रूरसत्वस्त्वं पयोधिरिव गोयसे ॥' इति, 'कथं वार्धिरिवासि त्वं यतः स विषभागयम्' इति वाकृते एकतरानुपादानम् । ३४९ 'महेन्द्रतुल्यं कवयो भवन्तं वदन्तु किं तानिह वारयामः । भवान्सहस्त्रैः समुपास्यमानः कथं समानस्त्रिदशाधिपेन ॥ अत्रार्थी | त्रिर्दश त्रिदशास्त्रिंशत् । तेषामधिपः । ' संख्ययाव्ययासनादूराधिकसंख्याः संख्येये' इति बहुव्रीहौ, 'बहुव्रीहौ संख्येये-' इति डचि च तत्पुरुषः । वृत्तौ गतार्थत्वात्सुचो न प्रयोगः । त्रयो वा दश वा इति बहुव्रीहिर्वा । 'भवान्सदा रक्षितगोत्रपक्षः समानकक्षः कथमस्य युक्त:' इति, 'कथं निरस्ताखिलगोत्रपक्षः समानकक्षस्तव युज्यते सः ' इति वा कृते एकतरानुपादानम् । आक्षिप्ता च । अर्वाचीनान् ऐहिकान् । अनन्यजुषां स्वान्यासेवकानाम् । पूर्वार्धे कृते इति शेषः । तद्नुपेति । उभयानुपादानमित्यर्थः । आक्षिप्ता चेत्यपि बोध्यम् । इतरेतद्भेदसमाप्तौ । सश्लेषमुदाहरति-क्रूरेति । सत्त्वानि जलजन्तवः । दोषाकर चन्द्रः । हे भूप, त्वं तथादोषस्थानं क्रूरप्राणिव्याप्तश्च न यत इत्याद्यर्थः । ' अन्तः सत्त्वा' इति पाठः क्वचित् । तत्रान्तः अभ्यन्तरे सत्त्वैर्यादोभिराकुलः । अन्यत्र सत्त्वगुणः । तेनाकु For Private And Personal Use Only श्वेत्यर्थः । श्रौती । तादृशयथाशब्दसत्त्वात् । प्रचण्डसूर्यमण्डलवदप्रतिहताज्ञः । यतः सोऽयं वाधिविषभागित्यर्थः । यद्वा यतोऽयं सविषं क्रूरलं भजति तथेत्यर्थः । एकतरेति । उपमानेतीत्यादि तु प्राग्वत् । आयुपमाक (?) प्रमुदाहरति - महेन्द्रेति । परमैश्वर्यवत्तुल्यमित्यर्थः । सहसैर्जनैः । त्रिदशेति । इन्द्रेणेत्यर्थः । आर्थी तुल्यशब्दप्रयोगात् । त्रिदशा देवाः । श्लेषेण द्वितीयार्थमाह - त्रिरिति । तत्पुरुष इति । तेषामपि इत्युक्तरूप इति भावः । सुजर्थान्तर्भावेण बहुव्रीह्यङ्गीकारादाह-- वृत्ताविति । तदनन्तर्भावजलाघवादाह - त्रयो वा दश वेति । प्रक्रिया पूर्ववत् । अग्रे तत्पुरुषोऽपि प्राग्वत् । आद्ये गोत्रपक्षः स्ववंशपक्षः । द्वितीये गोत्रपक्षाः पर्वतपक्षाः ।
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy