________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
काव्यमाला ।
यथा'परिहरतु धरां फणिप्रवीरः सुखमयतां कमठोऽपि तां विहाय ।
अहमिह पुरुहूत पक्षकोणे निखिलमिदं जगदलमं वहामि ॥' पुरुहूतं प्रत्येषा गरुत्मत उक्तिः । ननु 'अपि वक्ति-' 'परिहरतु धराम्.-' इति पद्यद्वये गर्व एव नोत्साहः । मध्यस्थपद्ये तु धृतिरेव ध्वन्यते इति भावध्वनय एवैते न रसध्वनय इति चेत्, तर्हि युद्धवीरादिष्वपि गर्वादिध्वनितामेव किं न ब्रूयाः । रसध्वनिसामान्यमेव वा किं न तब्यभिचारध्वननेन गतार्थयेः । स्थायिप्रतीतिर्दुरपह्नवा चेत्तुल्यं प्रकृतेऽपि । अनन्तरोक्तपद्ये तु नोत्साहः प्रतीयते । दयावीरादिषु प्रतीयत इति तु राज्ञामा(राजा)ज्ञामात्रम् । . . अद्भुतो यथा
'चराचरजगजालसदनं वदनं तव ।
गलद्गगनगाम्भीर्य वीक्ष्यास्मि हृतचेतना ॥' कदाचिद्भगवतो वासुदेवस्य वदनमालोकितवत्या यशोदाया इयमुक्तिः। अत्र वदनमालम्बनम् । अन्तर्गतचराचरजगजालदर्शनमुद्दीपनम् । हृतचेतनत्वम्, तेन गम्यं रोमाञ्चनेत्रस्फारणादि चानुभावः । त्रासादयो व्यभिचारिणः । नैवात्र विद्यमानापि पुत्रगता प्रीतिः प्रतीयते । व्यञ्जकाभावात् । प्रतीतायां वा तस्यां विस्मयस्य गुणत्वं न युज्यते । एवं कश्चिन्महापुरुषोऽयमिति भक्तिरपि तस्याः पुत्रो ममायं बाल इति निश्चयेन प्रतिबन्धादुत्पत्तुमेव नेष्टे । अतस्तस्यामपि विस्मयस्य गुंणीभावो न शङ्कयः । पुरुहूत, स्वपक्षकदेशे । 'निखिलमिदं जगदण्डकं वहामि' इति पाट: । वीररसध्वन्युच्छेदमुक्त्वा तुल्ययुक्त्या सामान्योच्छेदमाह-रसेति । स्थायीत्यस्य तत्रेत्यादिः । दयावीरादिषु प्राचीनोदाहृतेषु । गलनष्टम् । तेन गम्यमिति । तद्बोधकशब्दाभावादिति भाव: । अत्र भावध्वनित्वं निराचष्टे-नैवेति । प्रतीतायां वेति । प्रकरणादिपर्यालो. चनयेति भावः । विस्मयस्य गुणत्वमिति । विस्मयस्योत्कटत्वेन तस्या एव गुणत्वमनुत्कटत्वात् । हृतचेतनेत्यनेन तस्यैव प्राधान्यप्रकटनाच्चेति भावः । अन्यथापि संभावितत्वं निराचष्टे-एवमिति । तस्या इत्यस्य मध्यमणिन्यायेनान्वयः । अत उपपत्त्यभा.वादेव । तस्यामपि भक्तावपि । कथंकारं कथं कृत्वा । अस्य विस्मयस्य । तत्र दृष्टान्त
For Private And Personal Use Only