________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
४१
एषा धर्मेणापि रिपुर्जेतव्य इति वदन्तं प्रति युधिष्ठिरस्योक्तिः। अत्र धर्मविषय आलम्बनम् । 'न जातु कामान्न भयान्न लोभाद्धर्म त्यजेज्जीवितस्यापि हेतोः' इत्यादिवाक्यालोचनमुद्दीपनम् । शिरश्छेदाद्यङ्गीकारोऽनुभावः । धृतिः संचारिणी । इत्थं वीररसस्य चातुर्विध्यं प्रपञ्चितं प्राचामनुरोधात् । ___ वस्तुतस्तु बहवो वीररसस्य शृङ्गारस्येव प्रकारा निरूपयितुं शक्यन्ते । तथा हि-प्राचीन एव 'सपदि विलयमेतु' इत्यादि पद्ये 'मम तु मतिर्न मनागपैतु सत्यात्' इति चरमपादव्यत्यासेन पद्यान्तरतां प्रापिते सत्यवीरस्यापि संभवात् । न च सत्यस्यापि धर्मान्तर्गततया धर्मवीररस एव तंद्वीरस्याप्यन्तर्भाव इति वाच्यम् । दानदययोरपि तदन्तर्गततया तहीरयोरपि धर्मवीरात्टथग्गणनानौचित्यात् ।
एवं पाण्डित्यवीरोऽपि प्रतीयते । यथा'अपि वक्ति गिरां पतिः स्वयं यदि तासामधिदेवतापि वा ।
अयमस्मि पुरो हयाननस्मरणोल्लचितवाङ्मयाम्बुधिः ॥' अत्र बृहस्पत्याद्यालम्बनः सभादिदर्शनोद्दीपितो निखिलविद्वत्तिरस्कारानुभावितो गर्वेण संचारिणा पोषित उत्साहो वक्तुः प्रतीयते । ननु चात्र युद्धवीरत्वम् । युद्धत्वस्य वादसाधारणस्य वाच्यत्वात् । इति चेत्, क्षमावीरे किं ब्रूयाः। यथा--- 'अपि बहलदहनजालं मूर्ध्नि रिपुम निरन्तरं धमतु।
पातयतु वासिधारामहमणुमात्रं न किंचिदाभाषे॥' क्षमावत उक्तिरियम् । बलवीरे वा किं समादध्याः ।
तदन्तरिति । धर्मान्तर्गततयेत्यर्थः । तद्वीरेति । दानदयावीरयोरपीत्यर्थः । तासामधीति । गिरामधिष्ठात्री देवता । सरस्वतीत्यर्थः । याननो हयग्रीवः । तां धराम् । हे
For Private And Personal Use Only