________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
अथवैवं विन्यासः'न कपोतकपोतकं तव स्टशतु श्येन मनागपि स्टहा ।
इदमद्य मया समर्पितं भवते चारुतरं कलेवरम् ॥' एषा शिबेः कपोतं श्येनं प्रति चोक्तिः । अत्र कपोत आलम्बनम् । तद्गतं व्याकुलीभवनमुद्दीपनम् । तस्य कते स्वकलेवरार्पणमनुभावः । न चान शरीरदानप्रत्ययादानवीरध्वनित्वापत्तिरिति वाच्यम् । श्येनकपोतयोर्भक्ष्यभक्षकभावापन्नत्वेन शिबिशरीरस्यार्थिनोऽभावात्तदप्रतिपत्तेः।श्येने शरीरनिवेदनस्य कपोतशरीरत्राणोपाधिकतया विनिमयपदवाच्यत्वात् । तृतीयो यथा'रणे दीनान्देवान्दशवदन विद्राव्य वहति
प्रभावप्रागल्भ्यं त्वयि तु मम कोऽयं परिकरः । ललाटोद्यज्ज्वालाकवलितजगजालविभवो
भवो मे कोदण्डच्युतविशिखवेगं कलयतु ।' एषा दशवदनं प्रति भगवतो रामस्योक्तिः । इह भव आलम्बनम् । रणदर्शनमुद्दीपनम् । दशवदनावज्ञानुभावः। गर्वः संचारी । त्तिरत्र देवानां प्रस्तावे तद्गतकातर्यप्रकाशनद्वारा वीररसानालम्बनत्वावगतयेऽनुद्धतैव । दशवदनप्रस्तावे तु देवदर्पदमनवीरत्वप्रतिपादनायोद्धतापि । तस्यावज्ञया रामगतोत्साहानालम्बनत्वेन तदालम्बनस्य रसस्याप्रत्ययान्न प्रकर्षवती । भगवतो भवस्य तु परमोत्तमालम्बनविभावत्वात्तत्प्रस्तावे तदालम्बनस्यौजस्विनो वीररसस्य निष्पत्तेः प्रकृष्टोद्धता ।
चतुर्थों यथा'सपदि विलयमेतु राज्यलक्ष्मीरुपरि पतन्त्वथवा कृपाणधाराः। अपहरतु तरां शिरः कृतान्तो मम तु मतिर्न मनागपैति धर्मात् ॥'
तदप्रेति । शरीरदानाप्रतिपत्तेरित्यर्थः । नन्वेवं किमित्यर्पितमत आह-श्येन इति । निरुपाधिकस्थल एव दानप्रतीतिरिति भावः । परिकरो गात्रबन्ध आरम्भो वा । कलयतु जानात्वङ्गीकरोतु वा । तद्गतेति । देवगतेत्यर्थः । देवदति । तदर्पदमनं यद्वीरत्वं तत्प्रेत्यर्थः । तस्य रावणस्य । तत्प्रस्तावे भवप्रस्तावे । तदालम्बनस्य भवाश्रयकस्य ।
For Private And Personal Use Only