________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८८
काव्यमाला। 'प्राणानर्पय सीतां वा गृध्रांस्तर्पय वा द्विजान् ।
यमं भजस्व रामं वा यथेच्छसि तथाचर ॥' अत्रार्पणतर्पणभजनेषु मानरक्षणप्रमाणेन यथाक्रमं कर्मतया प्राणगृध्रयमानां जीवनरक्षणप्रमाणेन च सीताद्विजरामाणां प्राप्तानां योगपद्यासंभवात्पर्यायेण प्राप्तिः । कर्मणोः क्रियाफलेनैव समानधर्मेणौपम्यम् । नन्वत्र यथापितादिधात्वर्थफलरूपधर्मैक्यात्कर्मणोरौपम्यं गम्यते, तथा 'जीवनं मरणं वा' इत्यादौ सत्तारूपधर्मैक्याज्जीवनमरणयोः कोरपि तद्गन्तुं युज्यत इति चेत्, युज्यते, न तु गम्यते । अथ तत्कुतो हेतोः, कवितात्पर्यविरहादिति गृहाण । नात्र मरणं जीवनं च समानमिति कवेरभिप्रेतम् । किं तु 'विषं भुक्ष्व, मा चास्य गृहे भुयाः' इतिवत् धर्माद्धेतोमरणमपि ज्यायः, न तु धर्मत्याग इति निषद्धगतद्वेषाधिक्यम् । तदर्थ च मरणस्योपात्तत्वादविवक्षिताधिकरणतया औपम्यस्यानिष्पत्तिरेव । कचिल्लुप्तं समानधर्ममादायाप्यौपम्यस्य गम्यत्वेऽयमलंकारः । यथा भगवगीतासु 'हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम्' अत्र महीभोगस्वर्गप्राप्त्योरुत्तमत्वेनौपम्यं विवक्षितम् । तथा च धात्वर्थयोरयं विकल्प इत्येके । आख्यातार्थयोरित्यपरे । सर्वथैव न महीस्वर्गयोरिति स्थितम् । तयोः कारकत्वेनैव क्रियान्वयं विना विकल्पासंगतेः । न च धात्वर्थयोरेकस्य कर्तृरूपसाधारणधर्मस्योक्तत्वात्कथं लुप्ततेति वाच्यम् । कर्तृरूपसाधारणधर्ममादायौपम्यस्यात्र सुन्दरस्यानिष्पत्तेः । अन्यथा 'हतो वा नरकं गन्ता जित्वा वा भोक्ष्यसे महीम्' इत्यत्राप्यौपम्यप्रत्ययापत्तेः। यत्तु"भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी
ध्यानालम्बनतां समाधिनिरतै तेहितप्राप्तये । लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती
युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥' अत्र विकल्पः । उत्तमत्वाच्च तुल्यप्रमाणश्लिष्टत्वम्" इत्यलंकारसर्वखळतोक्तम् । तच्चिन्त्यम् । भवार्तिशमने तनुनेत्रद्वन्द्वयोईयोरपि युगपत्कर्तृत्वे विरोधाभावाद्विकल्पानुत्थानात् । 'विरोधे विकल्पः' इति हि
For Private And Personal Use Only