________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२४३ ननयनवतीति तु पर्यवसितम् । नयनाभेदे तु मीनेषु गृह्यमाणे सरसीरूपकापोषणादित्युक्तमेव । __ साधारणधर्मश्चात्राप्युपमायामिव क्वचिदनुगामी क्वचिद्विम्बप्रतिबिम्बभावमापन्नः क्वचिदुपचरितः क्वचिच्च केवलशब्दात्मा । सोऽपि क्वचिच्छब्देनोपात्तः । क्वचित्प्रतीयमानतया नोपात्तः । उपात्तोऽनुगामी यथा'जडानन्धान्पडून्प्रकृतिबधिरानुक्तिविकला
न्ग्रहग्रस्तानस्ताखिलदुरितनिस्तारसरणीन् । निलिम्पैनिमुक्तानपि च निरयान्तर्निपततो
नरानम्ब त्रातुं त्वमिह परमं भेषजमसि ॥' अत्र त्रातुमिति तुमुन्नन्तेन शब्देनोपात्तं जडान्धादित्राणं भेषजंभागी. रथ्योः । अयमेवानुक्तो यथा
'समृद्धं सौभाग्यं सकलवसुधायाः किमपि त___ न्महैश्वर्य लीलाजनितजगतः खण्डपरशोः । श्रुतीनां सर्वस्वं सुकृतमथ मूर्त सुमनसां
सुधासाम्राज्यं ते सलिलमशिवं नः शमयतु ॥' अत्र सौभाग्यभागीरथ्योः स्वाभावव्यापकदौर्भाग्यत्वपरमोत्कर्षाधायकत्वादिरनुपात्तः प्रतीयमानो धर्मः । एवमीश्वरासाधारणधर्मत्वपरमगोप्यत्वनिरतिशयसुखजनकत्वान्यापामरसकलजनजरामृत्युहरणक्षमत्वं चोत्तरोत्तरारोपेष्वनुगामीति । बिम्बप्रतिबिम्बभावमापन्नो विशिष्टरूपकप्रसङ्गे निरूपितः ।
लिम्पा देवाः । निरयो नरकः । अम्ब गङ्गे । भागीरथ्योः । अनुगामी धर्म इति शेषः । समृद्धमिति । गङ्गास्तुतिरेव । सौभाग्यभागीरथ्योः सौभाग्यभागीरथीजलयोः स्वपदेन विषयविषयिपरामर्शः । सुधासाम्राज्यमित्यत्राह-आपामरेति । निरूपित इति। 'कुङ्कुमद्रवलिप्ताङ्गः काषायवसनो यतिः । कोमलातपशोणाभ्रः संध्याकालो न संशयः ॥'
For Private And Personal Use Only