SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । १०९ नास्तीत्यस्ति नियमः । इन्द्रियत्रये व्यभिचारात् । इत्थं च स्वस्वव्याकोपनीतानां गुणिनां गुणानामुदासीनानां च यथा परस्परोपश्लेषेणौदासीन्येन वा तत्तत्प्रमितिगोचरता तथा रसानां तद्गुणानां चाभिव्यक्तिविषयतेति तु नव्याः । उदाहरणं तु 'तां तमाल' इत्यादि प्रागुक्तमेव (६४ पृष्ठे) वाक्यस्य व्यञ्जकतायामपि 'आविर्भूता यदवधि' इत्यादि च (३४ पृष्ठे) । प्रबन्धस्य तु योगवासिष्ठरामायणे शान्तकरुणयोः, रत्नावल्यादीनि च शृङ्गारस्य व्यञ्जकत्वान्निदर्शनानि प्रसिद्धानि । मन्निर्मिताश्च पञ्च लहयों भावस्य । पदैकदेशस्य च 'निखिलमिदं जगदण्डकं वहामि' (४२ पृष्ठे) इति करूपतद्धितो वीररसस्य प्रागेवोदाहृतः। एवं रागादिभिरपि व्यङ्गयत्वे सहृदयहृदयमेव प्रमाणम् । एवमेषां रसादीनां प्राधान्येन निरूपितान्युदाहरणानि । गुणीभावे तु वक्ष्यन्ते नामानि च । तत्र प्राधान्य एवैषां रसादित्वम् । अन्यथा तु रत्यादित्वमेव । नामनि रसपदं तु रत्यादिपरमित्येके । अस्त्येव रसादित्वं किं तु न ध्वनिव्यपदेशहेतुत्वमित्यपरे । इति महोपाध्यायपदवाक्यप्रमाणपारावारपारीणश्रीपेरमभट्टस्य सूरेः सूनुना पण्डितराजजगन्नाथेन निर्मिते रसगङ्गाधरे रसनिरूपणात्मकं पूर्वमाननम् । भावस्य तद्व्यङ्गयसंबन्धिप्रबन्धादिरूपव्य अकस्य । उदाहरणानीति शेषः । पदैकदेशस्य चेति । चस्त्वर्थे । उदाहरणमिति शेषः । वीररसस्येत्यस्य व्यअक इति शेषः । रागादिभिरपीति । रसस्येति शेषः । वक्ष्यन्ते इत्यत्र उदाहरणानीत्यस्यानुषङ्गः, तस्य चाग्रे नामानीति । रसवदित्यत्रेत्यर्थः । इति प्रथमाननप्रकाशः । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy