________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८
काव्यमाला।
यस्य वर्णनेन न तदुक्तीनां विरोधः । उपपत्तिस्त्वर्थेऽस्मिन्विचारणीया । रसभावादिरर्थ इत्यत्र रसादिशब्दो रत्यादिपरः । तदित्थं निरूपितस्यास्य रसादिध्वनिप्रपञ्चस्य पदवर्गरचनावाक्यप्रबन्धैः पदैकदेशैरवर्णात्मकै रागादिभिश्चाभिव्यक्तिमामनन्ति । तत्र वाक्यगतानां पदानां सर्वेषामपि स्वार्थोंपस्थितिद्वारा वाक्यार्थज्ञानोपायत्वे समानेऽपि कुर्वद्रूपतया चमत्कारायोगव्यवच्छिन्नत्वेन कस्यचिदेव ध्वनिव्यपदेशहेतुत्वम् । यथा 'मन्दमाक्षिपति' (१२ पृष्ठे) इत्यत्र मन्दमित्यस्य । रचनावर्णानां तु पदवाक्यान्तर्गतत्वेन व्यनकतावच्छेदककोटिप्रविष्टत्वमेव न तु व्यञ्जकत्वमिति यद्यपि सुवचम्, तथापि पदवाक्यविशिष्टरचनात्वेन, रचनाविशिष्टपदवाक्यत्वेन वा व्यञ्जकत्वमिति विनिगमनाविरहेण घटादौ दण्डचक्रादेः कारणत्वस्येव प्रत्येकमेव व्यञ्जकतायाः सिद्धिरिति प्रानः।।
वर्णरचनाविशेषाणां माधुर्यादिगुणाभिव्यञ्जकत्वमेव न रसाभिव्यञ्जकत्वम् । गौरवान्मानाभावाच्च । नहि गुण्यभिव्यञ्जनं विना गुणाभिव्यञ्जकत्वं
उपपत्तिस्त्वर्थे इति। विभावादिप्रतीते रसप्रतीतेश्च विद्यमानस्य सूक्ष्मकालान्तरत्वरूपस्य क्रमस्य सहृदयेनाकलने तस्य विगलितवेद्यान्तरत्वानापत्या रसत्वभङ्गापत्तिः । विगलितवेद्यान्तरत्वं च सकलसहृदयानुभवसाक्षिकमिति तत्रापि संमतमिति तदुपपत्तिर्योध्या । नव्यास्तु-वक्तवैशिष्टयप्रकरणादिज्ञानसहितस्यैव व्यअकत्वात्तत्सहितविभावादिज्ञानोत्तरं जायमानरसप्रतीतेर्विभावादिज्ञानापेक्षया विद्यमानक्रमालक्षणेन चालक्ष्यक्रमत्वम् । तच्च प्रकरणाद्विज्ञानविलम्बेन विभावादिज्ञानविलम्बेऽपि पर्वोदाहरणेऽक्षतमेव । नहि विभावादिज्ञानस्य तज्जनकस्य च क्रममादायालक्ष्यक्रमत्वम् । अपि तु तज्जन्यस्य । एतदेवाभिप्रेत्य 'अर्थशक्तिमूलस्य द्वादशभेदाः' इत्यभिनवगुप्तोक्तियत्किचिद्वाच्यार्थापेक्षया क्रमोऽपि ग्रह्यत इत्यभिप्रेत्य लक्ष्यक्रमत्वोक्तिर्यथाकथंचिन्नेया । नहि विभावादि प्रतीतिरहितयत्किचिद्वाच्यार्थमात्रप्रतीतौ विगलितवेद्यान्तरता सहृदयानुभवसाक्षिका । येन तत्क्रमग्रहणेऽपि रसत्वहानि: स्यादित्याहुः । रसभावादिरर्थ इत्यत्रेति । अभिनवगुप्तवाक्य इत्यर्थः । अन्यथा तदसंगतिः स्पष्टैवेति भावः । कस्यचिदेव पदस्य । यथेति । प्रतिपादितमधस्तात् । अभ्यहितत्वाद्रचनाशब्दस्य पूर्वनिपातः । कोटीति । रचनाविशिष्टपदत्वादिना व्यञ्जकत्वमिति भावः । इति इत्यत्र । घटादाविति । दण्डविशिष्टचक्रा. देश्चक्रादिविशिष्टदण्डादेा कारणत्वमित्यत्र विनिगमनाविरहेण यथा कारणतायाः प्रत्येकपर्याप्तिस्तथात्र व्यञ्जकताया इति भावः । नव्यमतमाह-वणेति । मन्नीति ।
For Private And Personal Use Only