________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
१०७
स्यालक्षणादलक्ष्यक्रमो व्यपदिश्यते । यत्र तु विचारवेद्यं प्रकरणम्, उन्नेया वा विभावादयस्तत्र सामग्रीविलम्बाधीनं चमत्कृतेर्मान्धर्यमिति संलक्ष्यक्रमोऽप्येष भवति । यथा--'तल्पगतापि च सुतनुः' इति प्रागुदाहृते (१२ पृष्ठे) पद्ये 'संप्रति' इत्येतदर्थावगतिविलम्बेन । न खलु धर्मिग्राहकमानसिद्धं रत्यादिध्वनेरलक्ष्यक्रमव्यङ्गयत्वम् । अत एव लक्ष्यक्रमप्रसङ्गे--
___ "एवं वादिनि देवर्षों पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्राणि गणयामास पार्वती ॥ इत्यत्र कुमारीस्वाभाव्यादप्यधोमुखत्वविशिष्टस्य लीलाकमलपत्रगणनस्योपपत्या मनाग्विलम्बन नारदकृतविवाहादिप्रसङ्गविज्ञानोत्तरं ब्रीडायाश्चमत्करणाल्लक्ष्यक्रमोऽयं ध्वनिः" इति प्राहुरानन्दवर्धनाचार्याः । "रसभावादिरों ध्वन्यमान एव, न वाच्यः । तथापि न सर्वो लक्ष्यक्रमस्य विषयः" इति चाभिनवगुप्तपादाचार्याः । स्यादेतत्, यद्ययं रसादिः संलक्ष्यक्रमस्य विषयः स्यात् । अनुरणनभेदगणनप्रस्तावे "अर्थशक्तिमूलस्य द्वादशभेदाः" इत्यभिनवगुप्तोक्तिः, "तेनायं द्वादशात्मकः” इति मम्मटोक्तिश्च न संगच्छेत । वस्त्वलंकारात्मना द्विविधेन वाच्येन स्वतःसंभवित्वकविप्रौढोक्तिनिष्पन्नत्वकविनिबद्धवक्तृप्रौढोक्तिनिष्पन्नत्वैस्त्रिभिरुपाधिभिस्त्रैविध्यमापन्नेन घडात्मना वस्त्वलंकारयोरिव रसादेरप्यभिव्यञ्जनादष्टादशत्वप्रसङ्गात् ।
अत्रोच्यते--प्रकटैर्विभावानुभावव्यभिचारिभिरलक्ष्यक्रमतयैव व्यज्यमानो रत्यादिः स्थायिभावो रसीभवति । न संलक्ष्यक्रमतया। रसीभावो हि नाम झगिति जायमानालौकिक चमत्कारविषयस्थायित्वम् । संलक्ष्यक्रमतया व्यज्यमानस्य रत्यादेस्तु वस्तुमात्रतैव, न रसादित्वमिति तेषामाश
स्फुटत्वेऽप्याह-उन्नेया वेति । अत एव तन्मात्रत्वाभावादेव । अस्योभयत्रान्वयः । देवर्षी नारदे । पितुहिमालयस्य । तथापि ध्वन्यमानत्वमात्रत्वेऽपि । अनुरणनभेदेति । ध्वनिभेदे त्यर्थः । तदेत्यादिः । रसीभवत्यरसो रसः संपद्यते । एवव्यवच्छेद्यमाह-न संलक्ष्येति । एवमग्रेऽपि । तेषामभिनवगुप्तादीनाम् । वर्णनेन । व्याख्याकारैरिति शेषः ।
For Private And Personal Use Only