________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
द्वतया वाच्यान्वयबोधवेलायां वाच्यैः सह व्यङ्गयान्वयानुपपत्तेः । अन्यथा 'सुदृशो नयनाब्जकोणयोः' इत्यस्यान्वयो न स्यात् । मैवम् । एवमपि
'निर्वासयन्तीं धृतिमङ्गनानां शोभा हरेरेणदृशो धयन्त्याः ।
चिरापराधस्मृतिमांसलोऽपि रोषः क्षणप्राघुणिको बभूव ॥' इत्यादावपि भावप्रशमध्वनित्वापत्तेः । भावस्य वाच्यत्वेऽपि प्रधानस्य तत्प्रशमस्य व्यङ्गयत्वात् । उभयोरप्यवाच्यत्वमपेक्षितमिति चेत्, प्रागुक्तपद्यद्वये शमत्वोदयत्वाभ्यां शमोदययोर्वाच्यत्वादनुदाहरणत्वापत्तेः । इष्टापत्तिस्तु सहृदयानामनुचितैव । तस्माद्भावप्रशमादिष्वपि प्राधान्येन भावानामेव चमत्कारित्वम्, प्रशमादेस्तूपसर्जनत्वमतो न तस्य वाच्यतादोषः । इदं पुनर्भावध्वनिभ्यो भावशान्त्यादिध्वनीनां चमत्कारवैलक्षण्ये निदानम्यदेकत्र चर्वणायां भावेषु स्थित्यवच्छिन्नामर्षादित्वम्, अमर्षादित्वमेव वा प्रकारः । अन्यत्र तु प्रशमावस्थत्वादिरपीति । रसस्य तु स्थायिमूलकत्वात्प्रशमादेरसंभवः । संभवे वा न चमत्कारः । इति न स विचार्यते । सोऽयं निगदितः सर्वोऽपि रत्यादिलक्षणो व्यङ्गयप्रपश्चः । ___ स्फुटे प्रकरणे झगिति प्रतीतेषु विभावानुभावव्यभिचारिपु सहृदयतमेन प्रमात्रा सूक्ष्मेणैव समयेन प्रतीयत इति हेतुहेतुमतोः पौर्वापर्यक्रमवाच्यैः प्रशमादिभिः । व्यङ्यान्वयेति । आरुण्यव्यङ्गयरोपान्वयेत्यर्थः । अन्यथा तदङ्गीकारे । न स्यात् । रोपोदये सुदृक्त्वस्य बाधात् । तथा च रोपप्रशमादिध्वनित्वं सुस्थमिति भावः । निर्वासयन्ती दूरीकुर्वतीम् । मांसल: पुष्टः । क्षणप्राघुणिकोऽतिथिः। शङ्कते-उभयोरपीति । एवमेव उक्तदोषद्वयाभावेऽपि । प्रधानाप्रधानयोरपीत्यर्थः । पद्यद्वये 'उपसि- 'क्षमाप-' इत्यत्रेत्यर्थः । सहदयानामिति । अत्र शास्त्रे तेषामेव मुख्यप्रमाणत्वेनोरीकारादिति भावः । अपि वस्थितिसमुचायकः । नन्वेवं वैलक्षण्यानापत्त्या भेदेनोक्त्यसंगत्यापत्तिरत आह-इदं पुनरिति । यदेकत्र शुद्धभावध्वनी । विशेषणस्याव्यावर्तकत्वाद्विशेष्यमात्रकृतचमत्काराच्चाह--अमर्षादित्वमेव वेति । अन्यत्र भावशान्त्यादिध्वनौ । इतिनिदानसमाप्तौ। ननु भावशान्त्यादिवद्रसशान्त्यादिः कुतो नोदाहृतोऽत आह-रसस्येति । असंभव इति । तत्त्वे स्थायित्वानपपत्तेरिति भावः । नन्वभिव्यक्तिनाशादिरेव प्रशमादिरत आह-संभवे वेति । रत्यादिलक्षणो रत्यादिस्वरूपः । समयेन कालेन । हेविति । विभावादिरत्यायेरित्यर्थः । प्रकरणस्य
For Private And Personal Use Only