________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
काव्यमाला।
द्वितीयमाननम् । अथ संलक्ष्यक्रमध्वनिर्निरूप्यतेस च तावहिविधः, शब्दशक्तिमूलोऽर्थशक्तिमूलश्च । तत्राद्यो द्विविधः, व्यङ्गयस्य वस्तुत्वालंकारत्वाभ्यां द्वैविध्यात् । द्वितीयोऽपि वस्त्वलंकारात्मना लोकसिद्धेन तथाभूतेनैव प्रतिभामात्रनिर्वर्तितेन च व्यञ्जकेनार्थेन चतुर्विधेन वस्त्वलंकारात्मनो द्विविधस्य व्यङ्गयस्य प्रत्येकं व्यञ्जनादष्टमूर्तिः। प्रतिभानिवर्तितत्वाविशेषाञ्च । कवितदुम्भितवक्तप्रौढोक्तिनिप्पन्नयोरर्थयोर्न टथग्भावेन गणनोचिता । उम्भितोम्भितादेरपि भेदान्तरप्रयोजकतापत्तेः । न च तस्यापि कम्युम्भितत्वानपायात्तत्प्रयोज्यभेदान्तर्गतत्वमेवेति वाच्यम् । प्रथमोम्भितस्यापि लोकोत्तरवर्णनानिपुणत्वलक्षणकवित्वानपायात्पृथग्भेदप्रयोजकतानुपपत्तेः । एवं साकल्येन दशभेदोऽयम् । तत्र केचिदाहुः-नानार्थस्य शब्दस्य सर्वेष्वर्थेषु संकेतग्रहस्य तुल्यत्वाच्छूतमात्र एव तस्मिन्सकलानामर्थानामुपस्थितौ, शब्दस्यास्य कस्मिन्नर्थे तात्पर्यमिति संदेहे च सति, प्रकरणादिकं तात्पर्यनिर्णायकं पर्यालोचयतः पुरुषस्य सति तन्निर्णये तदात्मकपदज्ञानजाया एकार्थमात्रविषयायाः पुनः पदार्थोपस्थितेरनन्तरमन्वयबोध इति नये द्वितीयायाः पदार्थोपस्थितेः प्राथमिक्या इव न कुतो नानार्थगोचरतेति प्रकरणादिज्ञानस्य तदधीनतात्पर्यनिर्णयस्य वा पदार्थोपस्थितौ प्रतिबन्धकत्वं वाच्यम् । अन्यथा शाब्दबुद्धेरपि नानार्थविषयत्वापत्तिः । अत एवोक्तम्-'अनवच्छेदे विशेषस्मृतिहेतवः' इति । अनवच्छेदे तात्पर्यसंदेहे । विशेषस्मृतिरेकार्थमात्रविषया स्मृतिः ।
तथाभूतेनैवेति । वस्त्वलंकारात्मनेत्यर्थः । अन्येषां भेदानी संग्रहायाह-प्रतिभेति । तदुम्भितेति । तन्निबद्धेत्यर्थः । तस्यापि उम्भितोम्भितस्यापि । प्रतिबन्धा समाधत्ते-प्रथमोम्भीति । पृथग्भेदेति । वृद्धोक्तिविषयाच्छिशूक्तिविषय इव कव्यु. क्तिविषयाकविनिबद्धोक्तिविषये चमत्काराधिक्यानुभविकत्वात्पृथगुक्तिः । ततः परं च प्रतिनिधानसाध्यप्रतीतिकतया चमत्कारस्थगनानोम्भितोम्भितादेः पृथग्गणनेति तु नव्याः । साकल्येन मिलित्वा । अयं संलक्ष्यक्रमध्वनिः । तन्निर्णये तात्पर्यनिर्णये । तदात्मकपदेति । तात्पर्यज्ञानात्मकपदेत्यर्थः । तस्य नष्टत्वादाह-तदधीनेति । द्विती.
For Private And Personal Use Only