________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४
काव्यमाला |
अथ प्रकारान्तरेणाप्युल्लेखो दृश्यते — यत्रासत्यपि ग्रहीत्रनेकत्वे विषयाश्रयसमानाधिकरणादीनां संबन्धिनामन्यतमानेकत्वप्रयुक्तमेकस्य वस्तुनोऽनेकप्रकारत्वम् । अयमपि द्विविधः, शुद्धोऽलंकारान्तरसंकीर्णश्च । शुद्धो यथा
'दीनवाते दयार्द्रा निखिलरिपुकुले निर्दया किं च मृद्वी काव्यालापेषु तर्कप्रतिवचनविधौ कर्कशत्वं दधाना | लुब्धा धर्मेवलुब्धा वसुनि परविपद्दर्शने कांदिशीका राजन्नाजन्मरम्या स्फुरति बहुविधा तावकी चित्तवृत्तिः ॥' अत्र दीनवातादीनां विषयाणामनेकत्वाच्चित्तवृत्तेरनेकविधत्वम् । राजविषयकरतिभावोपस्कारकोऽयमुल्लेखः । यद्यपि चित्तवृत्तिव्यक्तीनामत्रैक्यं नास्ति, तथापि तदीयचित्तवृत्तित्वेन सामान्येन तासामेकत्वं विवक्षितम् ।
यथा वा
'कातराः परदुःखेषु निजदुःखेष्वकातराः ।
अवलोभा यशसि सलोभाः सन्ति साधवः ॥'
अत्रापि साधवः सन्तीत्यनेन मृता अपि न मृतास्ते इतरे पुनरमृता अपि मृता एवेत्यर्थाभिव्यक्तिद्वारा व्यज्यमाने साधूत्कर्षविशेषे उपस्कारकोsयम् ।
फलोल्लेखत्वादिव्यवहार इति बोध्यम् । संबन्धिनामिति । विषयरूपाश्रयरूपैकाधिकरवृत्तित्वेन प्रतीयमानरूपाश्च ये संबन्धिनः । विषयाश्रयसहचरादिरूपा ये संबन्धिन इति यावत् । तेषां मध्ये यस्य कस्यचिद्यदनेकत्वं तत्प्रसक्तमित्यर्थः । बाते समूहे । मृद्वीति । काव्योक्तिषु कोमलेत्यर्थः । व्यालापेषूक्तिमात्रेषु मृद्वीका द्राक्षारूपा । मधुरेति यावदिति कश्चित् । तर्केति । तर्कस्य प्रतीत्यर्थः । वसुनि द्रव्ये । परेति । परस्य परा वेत्यर्थः । कांदिशीति । कस्यां दिशि गन्तव्यमिति धीविशिष्टेत्यर्थः । राजानं प्रति कथ्युक्तिः । अस्यालंकारत्वायाह - राजेति । कविनिष्ठेत्यादिः । नास्तीति । तथा चैकस्य वस्तुन इत्यंशाभावान्नेदं लक्ष्यमिति भावः । तथा लक्षणे विवक्षाया अभावादाद- यथा वेति । अत्र परदुःखादीनां विषयाणामनेकत्वात्साधूनामनेकविधत्वं स्पष्टमुपेक्ष्यालंकारान्तरत्वमुपपादयति — अत्रापि साधव इति । एवं विषयानेकत्वप्रयुक्तमुदाहृत्याश्रयानेकत्वप्रयुक्त
For Private And Personal Use Only