________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
अथान्योन्यालंकारःद्वयोरन्योन्येनान्योन्यस्य विशेषाधानमन्योन्यम् । विशेषश्च क्रियादिरूपः । यथा'सुदृशो जितरत्नजालया सुरतान्तश्रमबिन्दुमालया।
अलिकेन च हेमकान्तिना विदधे कापि रुचिः परस्परम् ॥' अत्र गुणरूपविशेषाधानम् । रुचेर्गुणत्वात् । न च विधानरूपक्रियात्मकविशेषाधानमिह शङ्कयम् । भावनासामान्यरूपस्य विधानस्याचमत्कारित्वेनाविशेषत्वात् । 'परपूरुपदृष्टिपातवजाहतिभीता हृदयं प्रियस्य सीता ।
अविशत्परकामिनीभुजंगीभयतः सत्वरमेव सोऽपि तस्याः ॥' अत्र क्रियारूपविशेषाधानम् ।
यत्तु
“यथोक्षिः पिबत्यम्बु पथिको विरलाङ्गुलिः ।
तथा प्रपापालिकापि धारां वितनुते तनुम् ॥' अत्र प्रपापालिकायाः पथिकेन स्वासया पानीयदानव्याजेन बहुकालं स्वमुखावलोकनमभिलपन्त्या विरलाङ्गुलिकरणतश्चिरं पानीयपानानुवृत्तिसंपादनेनोपकारः कृतः । तथा प्रपापालिकयापि स्वमुखावलोकनमभिलषतः पथिकस्य धारातनूकरणतश्चिरं पानीयदानानुवृत्तिसंपादनेनोपकारः कृतः ।" इति कुवलयानन्दकार आह । तन्न । तावदियं पदरचनैवायुप्मतो ग्रन्थकर्तुयुत्पत्तिशैथिल्यमुद्रिति । तथा हि-स्वमुखावलोकनमभिलषन्त्या इत्यत्र स्वशब्दस्य प्रपापालिकाविशेषणघटकत्वेन प्रपापालिकाबोधकत्वमेव न्याय्यम्, न पान्थबोधकत्वम् । एवं स्वमुखावलोकनमभिलषत इत्यत्रापि पान्थबोधकत्वमेव, न त्वदिष्टप्रपापालिकाबोधकत्वम् । एवं स्थितेऽर्थासंगतिः स्पष्टैव । न च सर्वनाम्नां बुद्धिस्थप्रकारावच्छिन्ने शक्तत्वादिष्टबोधोपपत्तिरिति वाच्यम् । तदिदमस्मद्युप्मदादिष्विव तत्तद्विशेषव्युत्पत्तेरपि कल्पनीयत्वात् । सा च प्रकते यद्विशेषणघटकत्वेन स्वनिजादयः शब्दा उपात्तास्तद्वोधका इत्येवंरूपा । तेन स्वदाररतानां
For Private And Personal Use Only