________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५४
काव्यमाला।
अत्र सावकाशतयेत्यनेन कल्पितया आधेयन्यूनतया आधारस्य महखं पर्यवस्यति । यदि तु सावकाशतयेति विशेषणं विश्वाश्रय इत्यत्रापि योज्यते तदा शृङ्खलारूपस्याधाराधिकालंकारस्येदमेवोदाहरणम् ।
'ब्रह्माण्डमण्डले मान्ति न ये पिण्डीकता अपि ।
परस्परापरिचिता वसन्ति त्वयि ते गुणाः ॥' अत्रोभयविधस्याप्यस्यालंकारस्य सामानाधिकरण्यम् । लक्षणे कल्पनमित्यनेन यत्राधाराधेययोरन्यतरस्य न्यूनत्वमधिकत्वं च वास्तवं तत्र नातिप्रसङ्गः । एवं च
'क्वाहं तमोमहदहंखचराग्निवा -
संवेष्टिताण्डघटसप्तवितस्तिकायः । केदग्विधाविगणिताण्डपराणचर्या
वाताध्वरोमविवरस्य च ते महित्वम् ।।' इति श्रीभागवतदशमस्कन्ध(१४।११)गतं ब्रह्मस्तुतिपद्यमस्यालंकारस्यानुदाहरणमेव । दिकालानवच्छिन्नस्य पारमेश्वरस्य भूम्नः सर्ववेदसिद्धत्वेन कविप्रतिभानुल्लिखितत्वात् । एतेन
'द्यौरत्र क्वचिदाश्रिता प्रविततं पातालमत्र क्वचि
क्वाप्यत्रैव धरा धराधरजलाधारावधिर्वतते । स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेभिः स्थितै
दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम् ॥' इत्यलंकारसर्वस्वकारेण यदुदाहृतं तदपि प्रत्युक्तम् ।
इति रसगङ्गाधरेऽधिकालंकारप्रकरणम् ।
१. 'ननु ब्रह्माण्डविग्रहस्त्वमपीश्वर एवेति चेत्तत्राह-वाहमिति । तमः प्रकृतिः । महान्महत्तत्त्वम् । अहमहंकारः । खमाकाशः । चरो वायुः । अग्निः । वार्जलम् । भश्च । प्रकृत्यादिपृथिव्यन्तैरेतैः संवेष्टितोऽण्डघटः स एव तस्मिन्वा स्वमानेन सप्तवितस्तिः कायो यस्य सोऽहं क्व, क च ते महित्वम् । कथंभूतस्य । ईदृग्विधानि यान्यविगणितान्यण्डानि त एव परमाणवस्तेषां चर्या परिभ्रमणं तदर्थ वाताध्वानो गवाक्षा इव रो. मविवराणि यस्य तस्य तव । अतोऽतितुच्छत्वात्त्वयानुकम्प्योऽहमिति' इति भागवतटोका श्रीधरो.
For Private And Personal Use Only