________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
१४९ त्तिकृतश्वोपमातो रूपकस्य भेदः स्फुट एव" इति वदन्ति । अपरे तु"भेदकरम्बितं सादृश्यमुपमाजीवातुभूतम्, भेदाकरम्बितं च गौणसारोपलक्षणाया इति स्फुटे भेदे कृतं फलकृतवैलक्षण्यपर्यन्तानुधावनेन । पक्षेऽस्मिन्भेदगर्भसादृश्यप्रतिपत्तेस्ताद्रूप्यप्रतीतिः कथं नाम फलं भवितु. मीष्टे, इत्यनुपपत्तिं परिहर्तुमायासोऽपि नापततीत्यपरमनुकूलम्" इत्यप्याहुः । तदित्थं प्राचामाशयो मतभेदेन वर्णितः।
नव्यास्तु-- "मुखं चन्द्रः, बाहीको गौः, इत्यादौ चन्द्रादीनां मुखादि. भिः सह संभवति लक्षणां विनैवाभेदसंसर्गेणान्वयबोधः । बाधनिश्चयप्रतिबध्यतावच्छेदककोटावनाहार्यत्वस्येव शाब्दान्यत्वस्यापि निवेश्यत्वात् । अत एव 'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि' इति प्राचां प्रवादोऽपि संगच्छते । न च वह्निना सिञ्चति इत्यतो वाक्यादपि शाब्दबोधापत्तिः । योग्यताज्ञानविरहात् । मुखं चन्द्रः, गौर्बाहीकः, इत्यादौ त्विष्टचमत्कारप्रयोजकताज्ञानाधीनाया इच्छायाः सत्वादाहार्ययोग्यताज्ञानसाम्राज्यम् । अत एव शाब्दबोधे योग्यताज्ञानस्य कारणत्वोक्तिप्राचां संगच्छते । आहार्य एव वा भेदान्वयबोधोऽस्तु । मास्तु बाधबुद्धिप्रतिबध्यतावच्छेदककोटौ शाब्दान्यत्वम् । मा चास्तु शाब्दबुद्धौ योग्यताज्ञानस्य कारणत्वम् । आहार्य प्रात्यक्षिकमेवेति नियमश्चावश्यं मुख: लेऽङ्गीक्रियमाणे चेत्यर्थः । उपमातो रूपकस्येति । उपमायां तथा बोधाभावात्सा. धारणस्यैव गुणस्य प्रतीतेश्चेति भावः । अत्रापि पक्षेऽरुचिं सूचयन्मतान्तरमाह-अपरे त्विति । करम्बितं विशिष्टम् । सादृश्यस्य धर्मरूपत्वेऽतिरिक्तत्वे च भेदागर्भत्वादिति भावः । जीवातुर्जीवनौषधम् । स्फुटे भेद इति । उपमायां चन्द्रभिन्नं चन्द्रसदृशमिति बोधः । रूपके तु चन्द्रसदृश मित्येवेति भावः । पक्षेऽस्मिन्नित्यस्यापरमित्यनेनान्वयः । ननु मुखं न चन्द्र इत्यादि बाधज्ञानसत्त्वेन कथं तथाबोधोऽत आह-बाधेति । अनाहाति । तत्सत्त्वेपीच्छारूपात्तेजकवशादा हार्यस्य जायमानत्वादिति भावः। न चेत्यस्यैवमिति शेषः । शाब्दान्यत्वनिवेशे इति तदर्थः । नन्वेवं प्रकृतेऽपि योग्यताज्ञानाभावात्कथं बोधोऽत आह-मुखमिति । अत एवाहार्ययोग्यताज्ञानसत्त्वादेव । शाब्दबोधे शाब्दबोधत्वावच्छिन्ने। लाघवान्मतान्तरमाह-आहार्य एव वेति । मा चास्त्विति। वह्निना सिञ्चतीत्यादावप्याहार्यज्ञानस्येष्टत्वादिति भावः । अस्योभयत्रान्वयः । उक्तं द्रढयति-अवश्यं चेत्यादिना । अभेदेत्यस्याहार्येत्यादिः । एवव्यवच्छेद्यमाह-न
For Private And Personal Use Only