________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
इति परिणामे शृण्विति विहाय पिबेति कते तत्रैव रूपके,
'विद्धा मर्मणि वाग्बाणैर्णन्ते साधवः खलैः ।
सद्भिर्वचोमृतैः सिक्ताः पुनः स्वस्था भवन्ति ते ॥' इति रूपके च बोधव्यवस्थितिः । तथा 'अहीनचन्द्रा लसताननेन ज्योत्स्नावती चापि शुचिस्मितेन' इति व्यधिकरणपरिणामेऽभेदस्य तृतीयार्थत्वाल्लसदाननाभिन्नहीनेतरचन्द्रयुक्तेति धीः, मीनवती नयनाभ्यामित्यत्र तु सरसीतादात्म्यारोपो बाधकाभावात्तावत्सिद्धः । तस्य च मीनयोनयनाभेदारोपेणासमर्थनान्नयनयोरुनाभेदारोपो मृग्यः । स च तृतीयायाः प्रकृत्यर्थाभेदार्थकतायां न संभवतीति यथाकथंचित्तस्याः प्रकृत्यर्थनिष्ठाभेदप्रतियोगित्वार्थकत्वं वाच्यम् । तेन नयननिष्ठाभेदप्रतियोगिमीनयुक्तेति धीः । एवं चारोप्यमाणे विषयप्रतियोगिकाभेदस्यामानान्न परिणामः, अपि तु रूपकमेव । इयमेव सरणिः 'नद्या शेखरिणे दृशा तिलकिने-' इति प्रागुक्ताप्पदीक्षितदत्तोदाहरणे 'वचोभिरुपायनं चकार-' इत्यलंकारसर्वस्वोदाहरणे च बोध्या । यदि पुनरारोप्यमाणे यथाकथंचिद्विषयाभेदप्रत्ययमात्रात्परिणामतोच्यते, नाद्रियते च प्रकृतोपयोगस्तदा 'प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम्' इति तदुदाहृतरूपकस्य परिणामतापत्तिः । प्रेमलतिकामिति समासे प्रेम्णो विषयस्य लतिकायामारोप्यमाणायामभेदेन विशेषणत्वादिति दिक् । सुन्दा सरसीतादात्म्यस्य । प्रकृत्यर्थाभेदेति । प्रकृत्यर्थप्रतियोगिकाभेदेत्यर्थः । विभक्त्या संसर्गबोधनस्य प्रकृत्यर्थप्रतियोगिकस्यैव व्युत्पत्तिसिद्धत्वेन तदसंभवादाह-यथाकथंचिदिति। अत्र मीनवती नयनाभ्यामित्यत्र । उक्तप्रकारेणायमेव बोधोऽन्योल्याहइयमेवेति । उदाहरणे च बोध्येति । परे तु “पूर्वपदार्थप्रधानमयूरव्यंसकादिसमासेन सुधाप्रतियोगिकाभेदवद्वच इत्येव बोधः । रूपके मीनवती नयनाभ्यामित्यत्र सुन्दसरसीतादात्म्यरूपं रूपकं मुख्यवाक्यार्थः । तत्र च मीनवत्त्वादिः साधारणो धर्मः । तस्य च सुन्दर्यामभावात्प्राप्तबाधबुद्धिस्थगनाय नयनाभ्यां मीनवतीति सुन्दरीविशेषणम् । सरस्यां च मीनवत्त्वं प्रसिद्धमेव । एवं च सुन्दयों मीनवत्त्वसंपादनरूपप्रकृतकार्योपयोगिता मीनानां नयनात्मतापत्त्यैवेति तदंशे परिणाम एवेति नयनप्रतियोगिकाभेदवन्मीनवतीत्येव बोध इति दिक् । 'पादाम्बुजं भवतु नो विजयाय मञ्ज' इत्यादौ रूपकोपमयोः
For Private And Personal Use Only