________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
'रतिर्देवादिविषया व्यभिचारी तथाञ्जितः ।
भावः प्रोक्तस्तदाभासा. ह्यनौचित्यप्रवर्तिताः ॥' __ इति हि प्राचां सिद्धान्तात् । न च तर्हि कामिनीविषयाया अपि रतर्भावत्वमस्तु, रतित्वाविशेषात्, अस्तु वा भगवद्भक्तेरेव स्थायित्वम्, कामिन्यादिरतीनां च भावत्वम्, विनिगमकाभावात्, इति वाच्यम् । भरतादिमुनिवचनानामेवात्र रसभावत्वादिव्यवस्थापकत्वेन स्वातन्त्र्यायोगात् । अन्यथा पुत्रादिविषयाया अपि 'रतेः स्थायिभावत्वं कुतो न स्यात्, न स्याहा कुतः शुद्धभावत्वं जुगुप्साशोकादीनाम्, इत्यखिलदर्शनव्याकुली स्यात् । रसानां नवत्वगणना च मुनिवचननियन्त्रिता भज्येत, इति यथाशास्त्रमेव ज्यायः।
एतेषां परस्परं कैरपि सहाविरोधः कैरपि विरोधः । तत्र वीरशङ्गारयोः, शृङ्गारहास्ययोः, धीराद्भुतयोः, वीररौद्रयोः, शृङ्गाराद्भुतयोश्चाविरोधः । शृङ्गारबीभत्सयोः, शृङ्गारकरुणयोः, वीरभयानकयोः, शान्तरौद्रयोः, शान्तशृङ्गारयोश्च विरोधः । तत्र कविना प्रकृतरसं परिपोष्टुकामेन तदभिव्यञ्जके काव्ये तद्विरुद्धरसाङ्गानां निवन्धनं न कार्यम् । तथा हि सति तदभिव्यक्ती विरुद्धः प्रकृतं बाधेत । सुन्दोपसुन्दन्यायेन चोभयोरुपहतिः स्यात् । यदि तु विरुद्धयोरपि रसयोरेकत्र समावेश इप्यते तदा विरोधं परिहृत्य विधेयः । तथा हि-विरोधस्तावद्विविधः । स्थितिविरोधो ज्ञानविरोधश्च । आद्यस्तदधिकरणारत्तितारूपः । द्वितीयस्तज्ज्ञानप्रतिबद्धज्ञानकत्वलक्षणः । तत्राधिकरणान्तरे विरोधिनः स्थापने
आह-भगेति । अञ्जितोऽभिव्यक्तो व्यभिचारिभावः । तथाशब्दश्चार्थे । प्राचां प्रकाशकृताम् । अतिप्रसङ्गं दत्त्वा वैपरीत्यमाह-अस्तु वेति । अत्र शास्त्रे । अन्यथा तद्वच-. नानामव्यवस्थापकत्वे । शुद्धोति । स्थायिभावत्वानालिङ्गितव्यभिचारिभावत्वमित्यर्थः । दर्शनं शास्त्रम् । भक्तिरसस्यातिरिक्तत्वाङ्गीकारे दोषान्तरमाह-रसानामिति । नियन्त्रिता नियमिता । एतेषां रसानाम् । विरोध इति । अन्ये तदासीनाः । यथा शान्ताद्भतो, वीरबीभत्सावित्यादीति बोध्यम् । तदभीति । विरुद्धरसाङ्गाभीत्यर्थः । तस्य बाधकवे नियामकाभावादाह-सुन्दोपेति । एकत्र काव्ये । तत्र तयोर्मध्ये। विरो
For Private And Personal Use Only