________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८६
काव्यमाला।
'वदनकमलेन बाले स्मितसुषमालेशमावहसि यदा ।
जगदिह तदैव जाने दशार्धबाणेन विजितमिति ॥' अत्र जगज्जयसंभावनायामातिप्रसङ्गवारणाय रमणीयतद्धर्मनिमित्तकमिति । स्मितस्य संभावनोत्थापकत्वेऽपि जगद्विजितरूपविषयविषयिसाधारणत्वाभावान्न दोषः । एतेन 'प्रायः पतेद्दयौः शकलीभवेद् ग्लौः सहाचलैरम्बुधिभिः स्खलेगौः ।
नूनं ज्वलिष्यन्ति दिशः समस्ता यद्दौपदी रोदिति हा हतेति ॥' अत्रापि रोदनकारणीभूतकेशग्रहणादिजन्यपापनिमित्तोत्थापितायां स्वपतनसंभावनायां नातिप्रसङ्गः । प्रायः स्थाणुनानेन भवितव्यम्, नूनं पुरुषेणानेन भाव्यम्, दूरस्थोऽयं देवदत्त इवाभाति, इत्यादौ निश्चलत्वचञ्चलत्वादिसाधारणधर्मनिमित्तायां संभावनायामातेप्रसङ्गः स्यात्, अतो रमणीयत्वं धर्मगतमुपात्तम् । रूपकवित्तावतिप्रसङ्गवारणाय संभावनमिति । अत्र च तादात्म्येन संसर्गेण धयुत्प्रेक्षायाः, संसर्गान्तरेण धर्मोत्प्रेक्षायाश्च संग्रहायकोक्त्या लक्षणद्वयं विवक्षितम् । __ सा चोत्प्रेक्षा द्विविधा-वाच्या, प्रतीयमाना च । इव, नूनम्, मन्ये, जाने, अवैमि, उहे, तर्कयामि, शङ्के, उत्प्रेक्षे, इत्यादिभिः क्यङाचारक्विबादिभिः प्रतिपादकैः सहिता यत्रोत्प्रेक्षासामग्री, तत्र वाच्योत्प्रेक्षा। यत्र च प्रतिपादकशब्दरहितं तत्सामग्रीमात्रम्, तत्र प्रतीयमाना । यत्र तत्सामग्रीरहितं प्रतिपादकमात्रम्, तत्र संभावनामात्रमेव नोत्प्रेक्षा । कायीभावापत्तेः । स्मितति । हास्यशोभालेशमित्यर्थः । तदेति पान्वयि । दशेति । पञ्चबाणेन मदनेनेत्यर्थः । जगजयेति । जगति जयसंभावनायामित्यर्थः । तद्धति । तद्धर्मसंबन्धोत्यर्थः । ननु स्मितरूपधर्मनिमित्तकत्वमस्त्येवात आह--स्मितेति । हा. स्यस्य तत्सहकारित्वादिति भावः । जगदिति । जगजितरूपी यो विषय विषयिणौ तनिष्ठत्वाभावादित्यर्थः । अस्य प्रत्युदाहरणान्तग्माह-एतेनेति । ग्लौश्चन्द्रः । गौः पृथ्वी । भूतत्वं केशग्रहणादि विशेषणम् । पापस्य द्यौः पतेदित्यादि विषय विषयिसाधारणत्वाभावादिति भावः । स्थाणुना वृक्षण । यथाक्रमेण धर्मानाह-निश्चलेति । आदिना विलक्षणाकारत्वपरिग्रहः । रमणीयत्वमिति । तत्वं च कविप्रतिभानिर्वर्तितत्वमिति भावः । ननु ज्ञानमित्येवास्तु अत आह-रूपकेति । नन्वेवमपि तदभाववस्वेनेत्याद्यधिकमत आह-अत्र चेति । उक्तलक्षणवाक्य इत्यर्थः । अलंकारसर्वस्वरीत्या इमा विभजते-सा चोत्प्रेक्षेति । यत्रोत्प्रेक्षासामग्रीति । सा च रमणीयतद्धर्म
For Private And Personal Use Only