________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
अथ परिकरःविशेषणानां साभिप्रायत्वं परिकरः।
तच्च प्रकृतार्थोपपादकचमत्कारिव्यङ्गयकत्वम् । अत एवास्य हेत्वलंकाराद्वैलक्षण्यम् । तत्र व्यङ्गयस्यानावश्यकत्वात् । उपपादकता चोपस्कारकनिष्पादकसाधारणी । व्यङ्गयस्य गुणत्वाच्च न ध्वनित्वं व्यपदिश्यते । यथा'मन्त्रैर्मीलितमौषधैर्मुकुलितं त्रस्तं सुराणां गणैः ___ त्रस्तं सान्द्रसुधारसैर्विदलितं गारुत्मतग्रावभिः । वीचिक्षालितकालियाहितपदे वर्लोककल्लोलिनि ___त्वं तापं तिरयाधुना भवभयव्यालावलीढात्मनः ।।' अत्रात्मनो भागीरथीकर्तृकस्य भवव्यालदंशजनिततापदरीकरणस्याशंसनं हि वाक्यार्थः । तत्र भगवत्या भवतापनाशिकात्वस्य सुप्रसिद्धत्वात्परिणामेन भवरूपविषयतादात्म्यापत्त्या व्यालजनितसंतापनाशिकात्वं तावत्सूपपादमेव । 'स्थास्नुजङ्गमसंभूतविषहव्यै नमो नमः' इत्याद्यागमबलाञ्च विषयतादात्म्यं विनापि शुद्धव्यालजनितसंतापनाशिकात्वमपि स्वभावसिद्धमेव । एवं वाच्यार्थस्य सत्यामपि निष्पत्तौ सौन्दर्यविशेषाधानाय साकूतं विशेषणं वीचिक्षालितेत्यादि । अत्र नामान्तरस्य सत्त्वेऽपि कालियाहितशब्दोपादानसामर्थ्याद्भगवतश्चरणे फणागणनृत्यनिःसारीकतकालिये लोकोत्तरविपहरणशक्तिरुत्पत्तिसिदैवासीत् । सा च तयोर्वीचिभिः
परिकर लक्षयति-विशेषणेति । तच साभिप्रायत्वं च । अत एवेत्यस्यार्थमाह--- तत्रेति । हेत्वलंकार इत्यर्थः । वनावतिव्याप्तिवारणाय प्रकृतार्थोपपादकेति । परिकरारेतिव्याप्तिवारणाय विशेषणेति । मीलितं निमीलितम् । स्रस्तं गलितम्। गरुडसंबन्ध्यपले रक्तमणिभिश्च । वीचिभिः क्षालितो कालियाख्यसर्पशत्रुकृष्णपादौ यया तत्सं. बोधनम् । स्वर्गङ्गे । संसाररूपसर्पदष्टात्मन इत्यर्थः । 'प्रार्थने लोट्' इत्याशयेनाह-आशंसनमिति । तत्र वाक्यार्थे । परिणामेन तदलंकारेण । तथा च मयूरव्यंसकादित्वासमासो बोध्यः। तादा.पत्त्या व्यालरूपविषयिणीति शेषः । आगमेति । पुराणेत्यर्थः । धानाय तत्करणाय । नामान्तरेति।वीचिक्षालितवासुदेवचरणे इत्यादेरित्यर्थः। सा शक्तिः।
For Private And Personal Use Only