________________
Shri Mahavir Jain Aradhana Kendra
यथा वा
www. kobatirth.org
रसगङ्गाधरः ।
३८७
क्षालनाद्गङ्गायां स्वाश्रयरेणुद्वारा संक्रान्तेति गम्यते । न च शक्तेः पूर्वमेव क्षालनात्कथं चरणेनार्वाक्कालियस्य विषहरणं शक्तिरहितेन संभवतीति वाच्यम् । क्षालितावशिष्टा लेशरूपा शक्तिश्चरणे काचित्स्थितासीत् यया संप्रति कालियस्य विषमहारीत्यप्याकृतान्तर्गतमेवेति नानुपपत्तिः । एवं हि वाच्योपस्कारकतयात्र गुणीभावः, न वाच्यसिद्ध्यङ्गतया ।
--
Acharya Shri Kailassagarsuri Gyanmandir
'मदकामविमोहमत्सरा रिपवस्त्वत्पुर एव तावकम् ।
धृतशार्ङ्गगदारिनन्दक प्रतिकर्षन्ति कथं न वीक्षसे ॥'
अत्राप्युपेक्षानौचित्यस्य तावकशब्दप्रतिपादितेन स्वामिभृत्यभावेनैव निष्पन्नशरीरस्य प्रकर्षकं धृतशार्ङ्गत्यादिविशेषणम् । अमोघशस्त्रास्त्रसंपन्नस्य समक्षमेव रिपुभिः कृष्यमाणं दासमुपेक्षमाणस्याकीर्तिर्भवित्री तवेत्याकूगर्भम् । ननु निष्प्रयोजनविशेषणोपादानेऽपुष्टार्थदोषस्योक्तत्वात्सप्रयोजनविशेषणं दोषाभावमात्रं कष्टत्वाद्यभाववद्भवितुमर्हति न त्वलंकार इति । अत्र विमर्शिनीकारादय आहुः - 'विशेषणानां बहुत्वमत्र विवक्षितम् । साभिप्रायविशेषणगतबहुत्वकृत एव चात्र वैचित्र्यातिशयः । एकविशेषणं तु दोषाभावमात्रस्यावकाशः' इति । तदसत् । विशेषणाने। कत्वं हि व्यङ्गव्याधिक्याधायकत्वाद्वैचित्र्यविशेषाधायकमस्तु नाम । न तु प्रकृतालंकारशरीरमेव तदिति शक्यं वक्तुम् । वीचिक्षालितकालियाहितपदे इति प्रागुक्ते एकस्यैव विशेषणस्य चमत्कारिताया अनपहवनीयत्वात् । 'अयि लावण्यजलाशय तस्या हा हन्त मीननयनायाः । दूरस्थे त्वयि किं वा कथयामो विस्तरेणालम् ||' अत्रैकैकविशेषणमात्रेणैव सकलवाक्यार्थसंजीवनाच्च ।
तयोः पादयोः । स्वशब्देन नाशनशक्तिः । पूर्वमेव कृष्णावतारात्प्रथममेव । अर्वाक् कृष्णजन्मानन्तरम् । एवमग्रेऽपि । उपसंहरति - एवं हीति । प्रकारान्तरेण सिद्धायास्तस्या विशेषणेन पोषणे होत्यर्थः । मदेति । विष्णुं प्रति भक्तोक्तिः । त्वत्पुर एव त्वदग्र एव । तावकं माम् । अरिशब्देन चक्रम् | अपुष्टार्थेति । अपुष्टार्थत्वेत्यर्थः । एasu | कष्टत्वादीति । यथा कष्टत्वाद्यभावो दोषाभावमात्रं न त्वलंकारस्तथेत्यर्थः । अत्र परिकरलक्षणे । चो हेतौ । अत्र परिकरे । हि यतः । तत् विशेषणा - नेकत्वम् । अयीति । नायिकावृत्तान्तं नायकं प्रति कश्चिद्वक्ति । अभावेनेति । ताव
I
For Private And Personal Use Only