________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
गृह्णन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामभ्रुवां - यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरुहाः ॥'. अत्र समासोक्त्यवयवाभ्यां तरुकामिकर्तृकरिपुकामिनीकबर्यादिग्रहणरूपाभ्यां प्रकृताप्रकृतव्यवहाराभ्यां व्यक्तयोः करुणशृङ्गारयो राजविषयकरतिभावाङ्गत्वम् । किं च प्रकृतरसपरिपुष्टिमिच्छता विरोधिनोऽपि रसस्य बाध्यत्वेन निबन्धनं कार्यमेव । तथा हि सति वैरिविजयकता वर्ण्यस्य कापि शोभा संपद्यते । बाध्यत्वं च रसस्य प्रबलैर्विरोधिनो रसस्याङ्गैविद्यमानेष्वपि खानेषु निष्पत्तेः प्रतिबन्धः । व्यभिचारिणो बाध्यत्वं तु तदीयरसनिष्पत्तिप्रतिबन्धमात्रात् । न त्वनभिव्यक्त्या । अभिव्यक्तों बाधकाभावात् । न च विरोध्यङ्गाभिव्यक्त्या प्रतिबन्धान्नाभिव्यक्तिरिति वाच्यम् । तद्व्यञ्जकशब्दार्थज्ञानसमये विरोध्यङ्गाभिव्यञ्जकशब्दार्थज्ञानस्यासंनिधानात् । प्रतिबध्यप्रतिबन्धकमावकल्पने मानाभावात् । भावशबलताया उच्छेदापत्तेश्च । रसनिष्पत्तेः प्रतिबन्धस्त्वनुभवसिद्ध इति तां प्रत्येव विरोध्यङ्गानां बलवतामभिव्यक्तेः प्रतिबन्धकत्वं न्याय्यम् । अपि च यत्र साधारणविशेषणमहिना विरुद्धयोरभिव्यक्तिस्तत्रापि विरोधो निवर्तते । यथा
'नितान्तं यौवनोन्मत्ता गाढरक्ताः सदाहवे । वसुंधरों समालिङ्गय शेरते वीर तेऽरयः ॥'
लिता वक्रीकृताः । न्यकृता अधःकृताः । ग्रहणे हेतुगर्भ विशेषणं कण्टकचिता इति । कण्टकव्याप्ता इत्यर्थः । तरुकामीति.। एतदुभयकर्तकेत्यर्थः । रतिभावेति । कविनिष्ठेत्यादिः । एकत्र काव्ये । पुन: प्रकारान्तरेण विरुद्धत्वाभिमतयोनिबन्धे न दोष इ. त्याह-किं चेति । इच्छतेति । कविनेति शेषः । काप्यनिर्वचनीया । रसस्येत्यस्य पूर्वत्रेव निष्पत्तेरित्यत्राप्यन्वयः । तदीयति । व्यभिचारभावीयेत्यर्थः । अनभीत्यस्य व्यभिचारिभावस्येत्यादिः । एवमग्रेऽपि । विरोध्यङ्गति । विरोधिनो रसस्याङ्गेत्यर्थः । . तद्वय अकेति । व्यभिचारिभावव्यञ्जकेत्यर्थः । असंनिधानानष्टत्वात् । ननु संस्कारस्यैव तत्त्वमास्तामत आह-भावति । नन्वेवं रसनिष्पत्तिप्रतिबन्धोऽपि न स्यादत आहरसेति । पुनरन्यथा तं परिहरति-अपि चेति । अत्र रक्तं रुधिरम्, अनुरांगश्च, इति ।
For Private And Personal Use Only