________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
काव्यमाला। वीरस्य चर्वणे शङ्गारचर्वणेति विवेकः । इत्थं चोदासीनचर्वणेन प्रतिबन्धकज्ञाननिवृत्तौ निष्प्रत्यूहः प्रतिबध्यचर्वणोदय इति फलितोऽर्थः । अङ्गाङ्गिनोरङ्गिन्यन्यस्मिन्नङ्गयोर्वा न विरोधः । अङ्गत्वानुपपत्तिप्रसङ्गात् । यथा'प्रत्युद्गता सविनयं सहसा सखीभिः
स्मेरैः स्मरस्य सचिवैः सरसावलोकैः । मामद्य मञ्जुरचनैर्वचनैश्च बाले
__ हा लेशतोऽपि न कथं वद मुत्करोषि ॥' इयं च पुरो निपतितां प्रमीतां नायिकां प्रति नायकस्योक्तिः । इह नायिकालम्बना, अश्रुपातादिभिरनुभावैरावेगविषादिभिः संचाभिश्च व्यज्यमाना नायकगता रतिस्तुल्यसामग्र्यभिव्यक्ते प्रकृतत्वात्प्रधानीभूते तद्गत एव शोके प्रकर्षकत्वादङ्गम् । यदि तु नायकगता रतिर्नात्र प्रतीयते, किं तु निरुक्तसामग्र्या शोक एव प्रकृतत्वादित्यागृह्यते तदा नायकालम्बना प्रत्युद्गमाद्यनुभाविता हर्षादिभिः पोषिता नायिकाश्रया रतिरेव तत्राङ्गमस्तु.। नायिकागतरते यकशोकप्रकर्षहेतुतायाः सर्वसंमतत्वात् । न च नायिकाया नाशात्तद्गताया रतेरसंनिधानात्कथमङ्गतेति वाच्यम् । संनिधानस्याङ्गतायामतन्त्रत्वेन स्मर्यमाणायास्तस्या अङ्गत्वोपपत्तेः । अङ्गयोर्यथा'उत्क्षिप्ताः कबरीभरं विवलिताः पार्श्वद्वयं न्यकृताः
___पादाम्भोजयुगं रुषा परिहृता दूरेण चेलाञ्चलम् । सतीति शेषः । विवेको भेदः । द्वितीयविषयमुपसंहरति-इत्थं चेति । उक्तप्रकारेण चेत्यर्थः । उदेति मध्ये इत्यादिः । निवृत्तौ । ज्ञानस्य त्रिक्षणावस्थायित्वादिति भावः । प्रकारान्तरेण विरोधं परिहरति-अङ्गाङ्गिनोरिति । पुनरन्यथा तं परिहरति-अङ्गिनीति । अङ्गत्वेति । एकाङ्गिनिरूपितेत्यादिः। तत्राद्योदाहरणमाह-प्रत्युद्गतेति। अमीतां मृताम् । तुल्यसामग्रीति । उक्तसामग्रीसजातीयेत्यर्थः । तद्गते एव नायकगते एव । नात्रेति । नैवात्रेत्यर्थः । निरुक्तेति । नायिकालम्बनेत्यादिनेति भावः । आयह्यते आग्रहः क्रियते। तत्र शोके । नायकशोकेति । नायकनिष्ठशोकेत्यर्थः । अतन्त्रत्वेनाकारणत्वेन । अजयोरित्यस्यैकस्मिन्नङ्गिनीत्यादिः । उत्क्षिप्ता उन्नतीकृताः । विव.
For Private And Personal Use Only