SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० काव्यमाला। यथा वाद्विर्भावः पुष्पकेतोर्विबुधविटपिनां पौनरुक्त्यं विकल्प श्चिन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः । द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्व नानन्दं कोविदानां जगति विजयते श्रीनृसिंहक्षितीन्द्रः ॥' इति । अत्र चिन्त्यते-तारानायकशेखरायेति पद्ये गिरिजासङ्गैकगृङ्गारिणि भवे कविकर्तृका नतिः प्रक्रान्ता । शृङ्गारिता च शेखरादीनि भूषणान्यपेक्षत इति नद्या आरोप्यमाणशेखररूपतयैवोपयोगः, न स्वरूपेण । एवं दृशोऽपि तिलकरूपतयेति रूपकमेव शुद्धं भवितुमर्हति । ननु परिणामे विषयाभिन्नत्वेन विषय्यवतिष्ठत इत्युक्तम्, प्रकृते च विषयवाचकेभ्यो नद्यादिशब्देभ्यः परस्यास्तृतीयाया अभेदार्थकत्वाच्छेखरादेश्च तदन्वयित्वात्कथं नात्र परिणाम इति चेत्, न । विषयाभिन्नत्वेन विषयिणो भानेऽपि तेन रूपेण तस्यानुपयोगात् । द्विर्भावः पुष्पकेतोरिति पद्येऽपि कोविदानन्दजननजगदुत्को कथ्येते राज्ञो नृसिंहस्य । तत्र कोविदानन्दजनकत्वमपि राज्ञ आरोप्यमाणद्वितीयमन्मथादितद्रूप्येण यथा संभवति न तथा केवलस्वरूपेण । तथाहि-अहो नयनानामस्मदीयानां साफल्यं यदयमपरो मन्मथोऽस्माभिरालोक्यत इति मन्यमानानां तेषां नयनानन्दस्तावत्पुष्पकेतुनैवोपपाद्यते, न तु राज्ञा । एवमपरोऽयं कल्पतरुश्चिन्तामणिर्द्वितीयः कर्ण इन्द्रश्च भूगतोऽयमन्यो दारिद्यमस्माकं परिहरिष्यति । हरिः खल्वयं संसारं हरिष्यतीत्यभिमानाजायमानस्तेषामानन्दोऽप्यारोप्यमाणैः कल्परक्षादिभिरेवेति न विषयात्मना विषयिण उपयोगः, अपि तु स्वात्मनैवेति कुत्रास्ति परिणामः । कैलासेन । कोविदानां पण्डितानाम् । शुद्धं परिणामामिश्रम् । तदन्वयीति । तृतीयार्थाभेदान्वयित्वादित्यर्थः । कथ्यते इति । शत्रन्तलडन्ताभ्यामिति भावः । तत्र द्वयोमध्ये द्विर्भावः पुष्पकेतोरित्यर्थमाह-द्वितीयमन्मथेति । विबुधेति वाक्यार्थमाहअपरोऽयं कल्पतरुरिति । एवं च पंचे (?) बहुवचनं कल्पभेदाभिप्रायेण । विकल्पश्चिन्तारत्नस्येत्यस्यार्थमाह-चिन्तामणिद्वितीय इति। द्वितीय इत्यस्याग्रेऽप्यनुषङ्गो बोध्यः । तपनेत्यादेरर्थमाह-कर्ण इति । वासवेत्यस्यार्थमाह--इन्द्रश्चेति। भूगत इत्यनेन प्रसिद्धेन्द्राद्वयतिरेकः सूचितः । द्वैतं देवस्येत्याद्यर्थमाह-हरिरिति । प्रकरणो For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy