________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
२५१
-
अलंकारसर्वस्वकारस्तु — ' आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति सूत्रयित्वा ' आरोप्यमाणं रूपके प्रकरणोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवलेनान्वयं भजते । परिणामे तु प्रकृतात्मतयारोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणतया परिणमति' इति व्याख्यातवान् । अत्रापि चिन्त्यते - आरोप्यमाणस्य प्रकृतोपयोग इत्यस्य प्रकृतकार्ये उपयोग आहोस्वित्प्रकृतविषयात्मतया उपयोगोऽर्थः । न तावदाद्यः । 'दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये । उद्यत्कठोरपुलकाङ्करकण्टकायै
खिद्यते तव पदं ननु सा व्यथा मे ॥'
इति तदुदाहृतरूपकोदाहरणे आरोप्यमाणानां कण्टकानां प्रकृतखेदव्यथारूपकार्ये उपयोगेनातिप्रसङ्गात् । न द्वितीयः ।
'अथ पवित्रमतामुपेयिवद्भिः सरसैर्वक्त्रपथाश्रितैर्वचोभिः | क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरंगमाद्यैः ॥' इत्यत्र स्वोक्तव्यधिकरणपरिणामोदाहरणासंगत्यापत्तेः । यतो राजसंघटने ह्युपायनस्यारोप्यमाणस्य स्वात्मनैवोपयोगः, न तु विषयवचोरूपतया । वचसां तु विषयाणामारोप्यमाणोपायनरूपत्वेन परमुपयोग इति प्रत्युत विपरीतम् । तस्मादस्मदुक्तमेव व्यधिकरणपरिणामस्योदाहरणं साधु । इदं तु पुनर्व्यधिकरणरूपकं भवितुमर्हति । तृतीयार्थाभेदोऽपि मी - पेति । प्रकृतोपेत्यर्थः । प्रकृतोपरञ्जकत्वेनेति । तस्य स्वोपरक्तबुद्धिविषयीकरणेनेत्यर्थः । उपयोग इति । वक्ष्यमाणार्थपदस्यात्राप्यपकर्षः । दासे इति । नायिकां प्रति सापराधस्यानुभूततत्पादप्रहारस्य नायकस्योक्तिरियम् । नायिकासंबन्धात्पुलकोदयः । पुलकाङ्कुरा एवं कण्टकायाणीत्यर्थः । तदुदेति । अलंकार सर्वस्वकृदुदाहृतेत्यर्थः । एवमग्रेऽपि । आरोप्येति । पुलकेष्वित्यादिः । प्रकृतेति । प्रकृतो यः खेदस्तत्संबन्धिनी या व्यथेत्यर्थः । पवित्रमतां पकत्वम् । तत्परतस्तदनन्तरम् । राजसंघटने राजमेलने । उपायनस्य 'भेट, नजर' इत्यादिभाषाप्रसिद्धस्य । आरोप्येति । वचसीत्यादिः । प्रत्युत विपराति | अत्रेदं चिन्त्यम् - यत्किचिद्रूपोपायनस्य राजसंघटनानुपायत्वात् । विलक्षणवचनतुरंगमादिरूपस्यैव च तदुपायत्वात् । एवं च राजसंघटनोपयोगित्वं तुरंगमादिरूपेणैवोपायनस्येतदुक्तिरेव विपरीतेति । अग्रिममवधारणमिदं वित्याद्युक्तं च चिन्त्यमिति
For Private And Personal Use Only