SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३२८ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । इदमेव लतादिष्वन्यतमस्य प्राकरणिकत्वे दीपकस्योदाहरणम् । अन्यथा तुल्ययोगितायाः । अत्र बिम्बप्रतिबिम्बतायां न केवलं क्रियारूपमनुगामिमात्रं चमत्कारकारणम्, अपि तु कुसुमादिविम्बप्रतिविम्बकरम्बितम् । इयांस्तु विशेषः — यत्केवलविम्बप्रतिबिम्बभावेनाप्युपमादीनां भवति निष्पत्तिः । यथा 'कोमलातपवाला - ' इत्यादौ । प्रकृते तु न यथा । अनुगामिनं विना धर्मस्वरूपस्यैवानिष्पत्तेः । नहि विम्बप्रतिबिम्बमात्रेण धर्मस्य सकृद्वृत्तिः संभवति । तथा 'मृतस्य लिप्सा -' इत्यादि प्रागुक्ते मृतादीनाम् । कारकदीपके कारकतुल्ययोगितायां च 'वसु दातुं - ' इत्यादौ क्रियाणां धर्मित्वात्तद्विशेषणानां वस्वादीनां च विम्बप्रतिविम्बता बोध्या । उत्तरोत्तरस्मिन्पूर्वपूर्वस्योपकारकतायां मालादीपकम् । यथा'आस्वादेन रसो रसेन कविता काव्येन वाणी तया लोकान्तःकरणानुरागरसिकः सभ्यः सभा चामुना । दारिद्र्यानलदह्यमानजगतीपीयूषधाराधर क्षोणीनाथ तया भवांश्च भवता भूमण्डलं भासते ॥ ' एतच्च प्राचामनुरोधादस्माभिरिहोदाहृतम् । वस्तुतस्त्वेतद्दीपकमेव न शक्यं वक्तुम् । सादृश्यसंपर्काभावात् । किं त्वेकावलीप्रभेद इति वक्ष्यते । अस्मिश्वालंकारद्वये क्रियादेर्धर्मस्यैकरूप्येण धर्मिष्वनन्वयो दोषः । यथा प्रागुक्ते पद्ये रसिकाः सामाजिकास्तैः सभा इति कृते एकवचनान्तैर्धर्मिभिरैकरूप्येणान्वयेऽपि सामाजिकैरनन्वयात् । वचनविपरिणामेनान्वये उपमायामिव स्यादेव दोषः । एवं जहल्लिङ्गनामार्थस्य धर्मस्य सहहृत्तौ लिङ्गभेदोऽपि दोषः । यथा ‘जगति नरजन्म तस्मिन्वैदुष्यं तत्र सत्कविता । कवितायां परिणामो दुष्प्रापः पुण्यहीनेन ||' मेव उदाहरणद्वयमेव । बिम्बेति । विलक्षणशोभाश्रयणानामित्यादिः । तुल्ययोगितायां चेति । अस्याग्रेऽन्वयः । वस्वादीनां चेति । चेन मृतादीनां समुच्चयः । उपमायामिव स्यादेवेति । तेन धर्मेणोपमा गम्या न स्यादिति भावः । लिङ्गभेदोऽपीति । धर्मिणामिति शेषः । एवमग्रेऽपि । जगतीति । अत्र दुष्प्राप इति For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy