SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। २९१ आकाशत्वस्य स्वरूपात्मकत्वाव्योत्प्रेक्षेयम् । अत एवाकाशपदाच्छब्दाश्रयत्वाद्यनुपस्थितिदशायामप्याकाशधीः । नीलत्वरूपनिमित्तस्य विषयिणि सिद्ध्यर्थ तृतीयचरणोपादानम् । दीर्घत्वरूपनिमित्तसिद्ध्यर्थं च पूर्वार्धम् । जात्यादीनामभावोत्प्रेक्षा यथा'बाहुजानां समस्तानामभाव इव मूर्तिमान् । जयत्यतिबलो लोके जामदग्न्यः प्रतापवान् ॥' अत्र जात्यवच्छिन्नाभावो विरोधित्वनिमित्तेन तादात्म्येनोत्प्रेक्ष्यते । विनाश इवेत्युक्तौ तु ध्वंसः । 'समस्तलोकदुखानाम्' इति प्रथमचरणे कते गुणाभावः । 'द्यौरञ्जनकालीभिर्जलदालीभिस्तथा वव्रे । जगदखिलमपि यथासीन्निर्लोचनवर्गसर्गमिव ॥' अत्रापि चाक्षुषज्ञानसामान्यशून्यत्वेन निमित्तेन पान्तिकः क्रियाभावो धर्मः । एवं द्रव्याभावोत्प्रेक्षापि स्वयमूह्या । मालारूपाप्येषा संभवति । यथा'द्विनेत्र इव वासवः करयुगो विवस्वानिव द्वितीय इव चन्द्रमाः श्रितवपुर्मनोभूरिव । नन्वाकाशत्वं शब्दाश्रयत्वादिरूपमिति कुतः स्वरूपात्मकमत आह-अत एवेति । तस्य स्वरूपात्मकत्वादेवेत्यर्थः । आदिना शब्दसमवायिकारणत्वपरिग्रहः । विषयिणि आकाशे। तृतीयेति । तलस्पर्शे सति प्रतिबिम्बासंभव इति भावः । सिद्ध्यर्थ चेति । आकाश एवेति शेषः । गर्तोपरितनाकाशस्य तद्दीर्घत्वारोपादिति भावः । बाहुजानां क्षत्रियाणाम् । जामदग्न्यः परशुरामः । जातीति । क्षत्रियत्वेत्यर्थः । विरोधित्वेति। जात्यवच्छिनेत्यादिः । अभावोऽत्यन्ताभावः । अभावपदत्यागेनाह-विनेति । कियाभावोत्प्रेक्षोदाहरणमाह-द्यौरिति । कज्जलवच्छयाममेघपतिभिस्तथाच्छादितेत्यर्थः । नेत्रशन्यजनसमूहसृष्टिरिवेत्यर्थः । निमित्तेनेति । अनुपात्तेनेति भावः । पार्यन्तिक इति । यद्यपि सर्गमिति नपुंसकोक्त्या तत्कं (१) जगदन्तरमिवैतज्जगदिति पूर्वे बोधः, तथापि तादृशजगदन्तराप्रसिद्ध्या अभावोत्प्रेक्षाबाधापत्या चात्रैव धर्मिणि जगति लोचनवर्गस्य सर्गो दानं संसर्गः प्रसरणं वा यत्र दर्शने तदभावो निराबोध्यते इति दर्शनक्रियाभावरूपो धर्म उत्प्रेक्ष्यते । पश्चादित्यर्थः । तदाह-क्रियाभावो धर्म इति । एषा उत्प्रेक्षा । करयुगो भुजद्वयः । क्षमां भूमिम् । 'अध्यारोपेण' इति पाठः। आ For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy